SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ३०० सवृत्तिच्छन्दोऽनुशासनप्रद्योत [अ० २, सू० - ३५४.] 1 जनैः । ये विकचैचिराय चरणारविन्दयुगमर्चयन्ति कुसुमैर्, मद्रकमन्दगोतिभिरभिष्टुवन्ति च चरित्रमत्र भवतः ।। ३५३.१ ।। अथ द्वात्रिंशत्यक्षरामाकृतिजाति वर्णयितुमुपक्रमते आकृतौ भ्रौ त्रौ श्रो गौ मद्रकं जैरिति । विवृणोति - भरनरनरनगाः । त्रैरिति दशभिर्यतिरिति । भगण-रगण-नगण - रगण-नगण-रगण-नगणाः गुरुश्च 1511. SIS. 111. SIS. 111. SIS. III. S. ' इतीदृशं रक्षरः कृताः पादा यस्य, दशभिश्च यतियंत्र तत् मद्रकं नामाकृतिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- देवजगत्त्रयेति । अत्र पद्ये मुद्रितपुस्तके द्वितीयपादे 'शिरोमणिपदव्यभाजि' इति समस्तः पाठो दृश्यते । सच नार्थसम्बन्धानुकूलः । पर्यायविवरण- पादटिप्पणीसमवलोकनेन च 'पदं व्यभाजि' इति पाठः प्रतीयते स एव च समुचित इति तमेवावलम्ब्य व्याख्यायते । हे जगत्त्रयैक तिलक ! जगत्त्रयस्य त्रिलोक्या एकं तिलकं भालभूषणमिवेति तत्सम्बोधनम्, प्रभो निग्रहानुग्रहसमर्थ ! प्रणयिलोक कल्पfar ! भक्तभविकल्पपादपभूत ! जिननाथदेव ! तैः जनैः इह लोके शिरोमणिपदं श्रेष्ठतमं स्थानं व्यभाजि विभज्यस्वीकृतम् ये अत्रभवतः पूज्यस्य तव विकचैः विकसितैः कुसुमैः पुष्पैः चरणाविन्दयुगं पादसरसीरुह युग्मम् अर्चयन्ति पूजयन्ति - चरित्रम् सुचरित लीलां - मद्रकमन्दगीतिभिः मद्रका इव मन्दा गीतयः मन्दस्वरगानानि तैः अभिष्टुवन्ति सर्वतः शंसन्ति । हे देव- इह लोके तएव श्रेष्ठतमा ये भक्त्या तव पादपूजां चरन्ति तव गुणांश्च गायन्तीति भावः । दे [s] व [1] ज [1] ग [5] त्र [1] [s] क [1] ति [1] ल [1] क [5]; प्र [1] भो [5] प्र [1] ण [1] यि [1] लो [5) क [1] क [5] ल्प [1] वि [1] ट [1] पिन् [s] इतिदशभिर्यत्यालक्षणसङ्गतिः तः ॥ अ० २, सू० ३५३।१ ।। स्तौ त्नो स्रौ र्गो महास्रग्धरा जछेः ॥ ३५४ ॥ सततनसररगाः । जछैरिति अष्टभिः सप्तभिश्च यतिः । यथा- अभि नागान्याति योऽयं स मम मम पुनर्यच्छिरो हुंकरोति, प्रचलोऽयं यत्कबन्धः प्रहरति स तु मे प्राणनाथोsस्तु सल्य: । दलयन् यो दुष्टभूषानहमहमिकया स्वर्गसीमन्तिनीनां परिशुधावेति वाचो वरवरणमहास्रग्धराणां रणेषु ॥ ३५४.१ ॥
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy