________________
[अ० २, सू०-३५२-३५३.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते
२६६ त्री रनौ रस्तरंगः ॥३५२॥ रनरनरनराः । यथा- निर्ममो भव विधेहि पञ्चपरमेष्ठिसंस्मरणमन्वहं, संयमं कुरु भज क्षमा यदि समीहसे सुखमनश्वरम् । यौवनं किल तडिल्लता. चपलमभ्रचञ्चलमिदं धनं, जीबितव्यमपि मारताहतसरित्तरंगतरल सखे ॥३५२.१॥२१॥८॥
अथाष्टमं प्रभेदमाह-त्री रनौ रस्तरङ्ग इति । विवृणोति- रनरनरनराः इति । रगण-नगण-रगण-नगण-रगण-नगण-रगणा: 'sis. I. sis. III. SIS. 1. 5.' इतीदृशैरक्षरैः कृताः पादा यस्य तत् तरङ्गनामकं प्रकृतिजातिच्छन्द इत्यर्थः । उदाहरति- निर्ममो भवेति । हे सखे ! यदि चेत् अनश्वरं अविनाशि सुखं कल्याणं समीहसे वाञ्छसि ( तर्हि ) निर्ममः संसारे आत्मीयतारहितः भव अन्वहं प्रतिदिनं पञ्चपरमेष्ठिसंस्मरणम् पञ्चानां परमेष्ठिनाम् अर्हत्-सिद्ध-आचार्य-उपाध्याय-साधूनां संस्मरणम् ध्यानम् विधेहि कुरु संयमम् इन्द्रियजयं कुरु विधेहि, क्षमा शान्ति भज सेवय । इदं सम्प्रतिवर्तमानं यौवनं तारुण्यं तडिल्लता विद्युहल्लीवत् चञ्चलम् इदम् भुज्यमानमर्त्यमानं च धनम् वित्तम् अभ्रचञ्चलम् मेघवत् अस्थिरम् जीवितव्यम् जीवनसमय: अपि मारुताहतसरित्तरङ्गतरलम् मारुतेन वायुना आहतानां प्रेरितानां सरित्तङ्गाणाम् नदीवीचीनाम् इव तरलम् चञ्चलम् अस्ति । आत्मानं तरुणं धनिनं चिरजीविनं च मत्वा यन्ममत्वं विषयेषु क्रियते तत्परित्यज्य परमेष्ठिनां प्रतिदिनं संस्मरणम् इन्द्रियजयम् अहिंसां च समाश्रय तदेव शाश्वतं सुखं लप्स्यसे इतिभावः । इत्थमेकविंशत्यक्षरायाः प्रकृतिजातेरष्टभेदा वणिताः । प्रस्तारगत्यातु २०६७१५२ भेदा भवन्ति । तदुक्तं भरतेन- तथाशतसहस्राणां प्रकृती विंशतिर्भवेत् । सप्त वै गतितान्यत्र नवतिश्चैव संख्यया । सहस्राणि शतंचैक द्विपञ्चाशत्तथैव च । वृत्तानि परिमाणेन वृत्त र्गदितानितु ॥ इति ( भ० ना० शा० १४१७०) ॥अ० २, सू० ३५२।१॥११॥८॥
आकृतौ भ्रौ नौ नौ न्गौ मद्रक ञः ॥३५३।। भरनरनरमगाः । जैरिति दशभिर्यतिः । यथा- देवजगत्रयकतिलक प्रमो प्रणयिलोककल्पविटपिन, पुण्यवतां शिरोमणिपदस्यमाजि जिननाय तैरिह