SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ २६८ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-३५१.] र [5] ल [i] कि [1] री [s] ट [1] मा [5] लि [1] का [s] इतिलक्षणसमन्वयः। अस्या नामान्तराचित्रलता- रुचिरा- शशिवदना चेत्यन्ये इति । अन्ये आचार्या यथारुचि इदमेव च्छन्दः केचित् चित्रलतेत्याहुः, केचिद्रुचिरेति परेशशिवदनेति चेत्यर्थः ।। अ० २, सू० ३५०।१॥ : .. नजीभ्रा वनमञ्जरी ॥३५१।। नगणो जगणचतुष्टयं भरो च । यथा- सह धनुषा समदो मदनः किल शीतदीधितिमोलिना, सुहृविह भस्म कृतस्तव दीसहुताशपिङ्गलया हशा। इति हि मघो कुमते स्मर मा विचरान्तिके तरलभ्रुवां, विरहजुषां सकलज्वलिताङ्ग मृतां वपद् वनमञ्जरीः॥३५१.१॥ सप्तमं प्रभेदमाह- नजीभ्रावनमञ्जरीति । विवृणोति- नगणो जगणचतुष्टयं भरोचेति । नगणः जगणाश्चत्वारः भगणरगणी च . IIIsI. 11. IST. S. sis.' इतीदृशैरक्षरः कृताः पादा यस्य तत्- वनगञ्जरीनामकं प्रकृतिजातिच्छन्द इत्यर्थः। उदाहरति- यथा- सहधनुषेति । हे मधो ! वसन्त ! शीतदीधितिमोलिना हिमकरकिरीटिना शिवेनं दीप्तहुताशपिङ्गलया प्रज्वलिताग्निपीतरक्तया दृशा दृष्टया तव सुहत् मित्रम्- समदः सगर्वः मदनः कामः धनुषा चापेन सह इह संसारे भस्म रक्षाधूलिः कृतः विहितः इति हे कुमते कुत्सित बुद्धे मधो स्मर ध्याय । विरहजुषां वियोगिनीनाम् सकलज्वलिताङ्गभृताम् सम्पूर्णदीप्तशरीरशालिनीनाम् तरलभ्रवाम् चञ्चलभृकुटीनामङ्गनानाम्- अन्तिके समीपे वनमञ्जरीः वनपुष्पकलिका दधत् धारयन्-मा विचर मा गच्छ। शिवः शीतकिरणमौलि: अतएव शान्तस्वभावः, केवलं प्रदीप्तेन एकेनाक्षणा- दुर्मदमपिमदनं धनुषापुष्पः सह भस्मकृतवान्, तत् स्मृत्वास्वभावत एव तरलभ्रुवां सर्वाङ्गज्वालाशालिनीनामासां निकटे गमने कृते सति तव कादशा भविष्यतीति विचार्यत्वया वनमजारीः कामबाणभूताः हस्ते दधता तासां समीपे न गन्तव्य मितिभावः । स [i] ह [1] ध [1] नु [0] षा [5] स [0] म [0] दो [5] म [0] द [0] न [s] कि [0] ल [0] शी [s] त [1] दी [5] धि [1] ति [0] मौ [5] लि [0] ना ]s] इतिलक्षणसमन्वयः ॥ अ० २, सू० ३५१।१।।.
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy