________________
[अ० २, सू०-३५०.] सवृत्तिच्छन्दोऽनुशासनप्रमौते
२९७ सर्वसौभाग्ययोग्यत्वेऽपि दुष्टवञ्चनापतिता सा किमपि स्वकीय यौवन फलं न प्राप्तवतीति भावः । द [5] र्श [1] ना [s] [घ [1] दी [5] ह [1] सं [s] ता [s] प [I] म [1] प [1] ह [1] र [1] ति []] ब [1] त [1] त [1] द [s] पि [1] त [1] भा [s] इति लक्षणसंगतिः ।।अ० २, सू० ३४६।१॥
न्जभजिराः सिद्धिः ॥३५०।। नजमा जत्रयं रश्च । यथा- सततनमत्पुरंदरशिरःशुचिरत्नकिरीटमालिका, विमलमयूखशेखरितपादनखद्युतिजालशालिनम् । विपुलदयानिधि प्रणयिकल्पतरुं भजत जिनेश्वरं, यदि भवकातरस्त्वमिह वाञ्छसि सिद्धिमनुत्तमां सखे ॥३५०.१॥ चित्रलता, रुचिरा, शशिवदना चेत्यन्ये ॥३५०.१॥
षष्ठं प्रभेदमाह- न्जभजिराः सिद्धिरिति । विवृणोति-नजभाजत्रयंरश्चेति । नगण-जगण-भगणा जगणत्रयं रगणश्च I. II. I. I. IST. Is1. sis.' इतीदृशैरक्षरैः कृताः पादा यस्य तत् सिद्धिनामकम् प्रकृतिजातिच्छन्द इत्यर्थः । उदाहरति- यथा-सततेति । हे सखे ! भवकातरः संसारभीतः त्वं इह संसारे अमुत्तमाम् सर्वतः श्रेष्ठां सिद्धि साफल्यम् यदि चेत् वाञ्छसि कामयसे (तर्हि) सततनभत्पुरन्दरशिरःशुचिरत्नकिरीटमालिका- विमलमयूरवशेखरितपादनखद्युतिशालिनम् सततं सर्वदा नमतां प्रणमतां पुरन्दराणामिन्द्राणां शिरःसु शुचीनां विशुद्धानां रत्नानां मणीनां किरीट मालिकायाः मुकुटश्रेण्याः विमलः निर्मलैः मयूरवैः किरणः शेखरिताभिः शिरसिधृताभिः पादनरवद्युतिभिः चरणनखकान्तिभिः शालते शोभले तच्छीलस्तम् विपुलदयानिधिम नियुक्तं विशालं दयानिधिम् कृपाऽऽकरम् प्रणयिकल्पतरुं भक्तकल्पद्रुमम् सुजिनेश्वरम् भज सेवय । अत्र तुतीय चरणे 'भजत जिनेश्वरम्' इति पाठो मुद्रित पुस्तके लभ्यते । परं चतुर्थचरणे 'सखे यदि त्वं सिद्धि वाञ्छसीति, एकवचनस्य प्रयुज्यमानतया बहुवचनान्ताया भजतेति क्रियाया असङ्गत्या- तं पाठमनादृत्य- भज-सुजिनेश्वरमितिपाठः कल्पित स्तथैव व्याख्यातश्च । संसारोद्धारहेतवे देवेन्द्रादिभिरपिपूज्यं जिनेश्वरमेव भजेति समुदितो भावः । स [1] त [1]) त [1] न [1] मत् [s] पु [I] रं [1] द [1] र [1] शि [0] रः [1] शु [1] चि [1]