SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ २९६ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-३४६.] सौभाग्यशालिन् ! तव भवतः नवविरहविधुरा नूतन वियोगेन दुःखिनी बाला प्रथमवयस्काऽङ्गना मत्तक्रीडाम् उन्मत्तलीलाम् आप्ता गता कृत्याकृत्यं कर्तव्याकर्तव्यं नो जानीते न वेत्ति धरणितलशयने पृथ्वीतलशय्यायाम विल्ठति विपरिवतंते, च, भूयोभूयः बाहुल्येन मूर्छाम् अचैतन्यं धत्ते धारयति शिथिलम् शरीराद् भ्रश्यमानम् अपि वसनम् वस्त्रं न द्रढयति स्वस्थाने स्थापयितुं न द्रढी करोति मर्थापेतम् अभिधेयहीनम् निःसम्बन्धं परस्परसम्वन्धरहितं वचनं वाक्यं वदति जल्पति अपि, नदतितराम् अतिशब्दं च करोति । एवं सर्वथा दयनीयेति भावः । नो [5] जा [s] नी [s] ते [s] कृ [s] त्या [s] कृ [s] त्यं [s]; वि [1] लु [1] 3 [1] ति [1] च [1]; ध [I] र [1] णि [1] त [1] ल [1] श [1] य [1] ने [s] इति अष्टभिः पञ्चभिश्च यत्या लक्षणसमन्वयः । अ० २, सू० ३४८॥१॥ तनिसाश्चन्दनप्रकृतिः ॥३४९|| रजता नत्रयं सश्च । यथा- दर्शनाद्यदीह संतापमपहरति तदपि बत तया, नाजितं धनं प्रभूतं जरसि सुखवमतिसरलतया। कि तु चन्दनप्रकृत्या सखि सततमपि फलरहितया, दुर्भुजंगपृष्टया यौवनमिदमफलमहह गमितम् ॥३४६.१॥ पञ्चमं प्रकारमाह-जंतनिसाश्चन्दनप्रकृतिरिति । विवृणोति- रजतानत्रयं सश्चेति । रगण-जगण-तगणा: नगणत्रयं सगणश्च 'sis. ISI. I. I. . . .' इतीदृशैरक्षरैः कृताः पादा यस्य तत् चन्दनप्रकृतिनामकं प्रकृतिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- दर्शनादिति । यदि यद्यपि इह जगति दर्शनात स्वप्रत्यक्षीकरणादेव सन्तापम् अपहरति नाशयति तदपि तथापि बत इतिखेदे, तया प्रक्रान्तया स्त्रिया अतिसरलतया अतिशयऋजुतया जरसि वार्धके सुखदम् सुखसाधनम् प्रभूतं बहुतरं धनं न अजितम् स्वायत्तीकृतम् । किंतु हे सखि चन्दनप्रकृत्या चन्दनवदतिशीतलस्वभावया, सततम् सर्वदा ( यौवने ) अपि फलरहितया स्वसौदर्यादिजन्यादरधनप्राप्त्यादि प्रयोजन शून्यया दुर्भुजंगघृष्टया दुष्टविटवञ्चितया इदं यौवनं तारुण्यम् अफलं निरर्थक गमितम् अतिवाहितम् अहह इति नितान्तखेदे ।
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy