SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू०-३४८.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते २६५ भरनरनरराः । जैरिति दशभिर्यतिरिति । भगण-रगण-नगण-रगण नगणाः रगणद्वयं च '.. sis. III. sis. I. sis. sis.' इतीदृशैरक्षरः कृताः पादा यस्य दशभिश्च यतिर्यत्र तत् दलितविक्रमनामकं प्रकृतिजातिच्छन्द इत्यर्थः । उदाहरति- यथा सदगुणरत्नेति। हे सदगुणरत्नरोहणगिरे सद्गुणाः एव रत्नानि तेषां कृते रोहणगिरे उत्पत्तिपर्वत ! यशोधवलिताखिलाशामुख ! यशोभिः कीतिभिः धवलितानि श्वेतीकृतानि अखिलाशानां सर्वदिशां मुखानि येन तत्सम्बोधनम्, द्वेषिवधूमुखाम्बुजविधो ! द्वेषिणां शत्रूणां वधूनां मुखाम्बुजानां मुखकमलानां कृते विधो चन्द्र ! वयं प्राकृताः जनाः तव भवतः किमिव केनरूपेण वर्णयामः स्तुमः, यस्य तव वशंवदन्तिभुवनः वशीकृतत्रिजगत् ललितविक्रमः सुन्दरपराक्रम: जम्भरिपोः इन्द्रस्य चमत्कृतिरसं चमत्कारास्वादं दधत् बिभ्राण: विबुधसुन्दरीमण्डलैः देवाङ्गनाससूहैः चिरं बहुकालपर्यन्तं गीयते स्तूयते । यस्य पराक्रम यशांसि इन्द्रमपि चमत्कुर्वन्ति, देवाङ्गनाभिरपि गीयन्ते तस्य वर्णने वयं किमिति शक्ताः इत्यर्थः । स [5] द्गु [1] ण [0] र [s] न [D] रो [5] ह [1] ण [1] गि [1] रे [5] य [1] शो [5] ध [1] व [1] लि [1] ता [s] शा [s] मु [1] ख [s] (द्वेषिभिरिति संयोगे गुरुत्वात्) दशभिर्यत्याचलक्षणसंगतिः ।। अ० २, सू० ३४७॥१॥ मौ तनिसा मत्तक्रीडा जङः ।।३४८|| मद्वयं तगणो नत्रयं सश्च । जङरिति अष्टभिः पञ्चभिश्च यतिः । यथा- नो जानीते कृत्याकृत्यं विलुठति च धरणितलशयने, भूयो भूयो मूर्छा धत्ते द्रढयति न शिथिलमपि वसनम् । अर्थापेतं निःसंबन्धं वचनमपि वदति नदतितरां, मत्तक्रीडाभाप्ता बाला सुभग तव नवविरहविधुरा ॥३४८.१॥ चतुर्थ प्रकारमाह- मौ तनिसा मत्तक्रीडाजडैरिति । विवृणोति- मगणद्वयं तगणो नत्रयं सश्च । जडैरिति अधभिः पञ्चभिश्च यतिरिति । मगणद्वयं तगणो नगणत्रयं सगणश्च 'sss. ssi. . . . .' इतीदृशैरक्षरैः कृताः पादा यस्य अष्टभिः पञ्चभिश्च यतिर्यत्र तत्- मत्तक्रीडानामकं प्रकृतिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- नोजानीत इति । हे सुभग !
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy