SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ २६४ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-३४७.] द्वितीयं प्रभेदमाह- त्रौ नौ ज्भौ रः कथागतिरिति। विवृणोतितरभनजभराः। छछरिति वर्तते इति । तगण-रगण-भगण-नगण-जगणभगण-रगणाः 'ssi. SIS. I. 1. II. I. SIS.' इतीदृशैरक्षरः कृताः पादा यस्य सप्तभिः सप्तभिश्च यतिर्यत्र तत् कथागतिनामकं प्रकृतिजातिच्छन्द इत्यर्थः । उदाहरति- यथा-केष्वपीति । ( अत्र अखण्डगर्वाद्विधुरितत्यस्यस्थाने वधिरितेति पाठः समीचीनः प्रतिभाति । तथापि प्रकृतपाठमवलम्ब्यापि व्याख्यायते ) हे चुलुक्यचन्द्र, चुलुकवंशप्रकाशक ! अखर्वगर्वात महादत्-ि अनर्गलगजितैः असम्बद्धप्रलापैः विधुरित भुवनेषु दुःखाकृतजगत्सु- वधिरितभुवनेषु इति पाठेसति वधिरितानि कर्णव्यापाररहितानि कृतानि भुवनानि यस्तेष्वित्यर्थः- सच समीचीनोमेघसाम्योपपत्तेः- अम्भोधरेष्विव मेघोष्विवकेष्वपि अनितिनामसु राजसु आखण्डलस्य सहस्राक्षस्येन्द्रस्य नयनासितो. त्पल काननम् नेत्रनीलकमलवनम् विनिमीलितम् मुद्रितम् अभूत्, प्रकृतनृपकथागते प्रकृतायां प्रस्तुतायां नृपकथायां राजचर्चायां कमात्सम्प्राप्ते त्वयि भवति तु-क्षणात् सद्य एव कामपि अनिर्वचनीयां प्रीति प्रसादम् अभजत प्राप्तम् । नृपकथाप्रसङ्गेन केवलं गर्वमुद्वहताम्- पराक्रमविधुराणां स्वबलमुच्चै?षयतां राज्ञां चर्चा श्रुत्वा शक्रस्याक्षीणि विनिमीलितानि, तत्रैव च क्रमात्तवचर्चायां समागतायां क्षणादेव तान्यक्षीणि प्रसन्नतां यातानीति भावः । के [s] ष्व [s] प्य [i] ख [s] + [1] ग [s] वर्वाद् [5], वि [1] धु [] रि [1] त [1] भु [1] व [1] ने [s] ष्व [1] न [5] 1 [I] ल [1] ग [s] जि [1] तैः [5] इति सप्तभिः सप्तभिर्यत्यालक्षणसंगतिः ॥ अ० २, सू० ३४६।१॥ भ्रौ त्रौ त्रौ रो ललितविक्रमो औः ॥३४७॥ भरनरनरराः । रिति दशभिर्यतिः । यथा- सद्गुणरत्नरोहणगिरे यशोधवलिताखिलाशामुख, द्वेषिवधूमुखाम्बुजविधो वयं किमिव वर्णयामस्तव । यस्य वशंवदत्रिभुवनश्चिरं विबुधसुन्दरीमण्डलर्, जम्भरिपोश्चमत्कृतिरसं दधललितविक्रमो गीयते ॥३४७.१॥ तृतीयं प्रकारमाह- भ्री श्री ब्रो रो दलितविक्रमो बैरिति । विवृणोति
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy