________________
[अ० २, सू० - ३४५-३४६.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते प्रकृतौ म्रौ नौ यिः स्रग्धरा छछेः ||३४५ ||
मरभना यगणत्रयं च । छछेरिति सप्तभि: सप्तभिर्यतिः । यथा- आवास: पर्णशाला वपुषि च वसनं नूतना त्वक्तरूणां, पाणावाषाढयष्टिः शिरसि च चिकुरैर्नव्यगुम्फो जटानाम् । कर्णेऽक्षत्रग् धरायाः परिवृड विपिने त्वद्भयात् संप्रतीत्थं वृत्तिद्वित्रं र होभिस्त्वदरिनृपजनैः शिक्षिता तापसानाम् ।। ३४५.१ ।।
•
२६३
अथ एकविंशत्यक्षरां प्रकृतिजाति वर्णयितुमुपक्रमते 'प्रकृतौ नौ नौ यिः स्रग्धरा छछैरिति । विवृणोति - मरभना यगणत्रयं च । छछैरिति सप्तभि: सप्तभिर्यतिरिति । मगण-रगण- भगण-नगणेभ्यः परं यगणत्रयम् - 'sss. 515, 511. 111. 1ss. iss Iss ' इतीदृशैरक्षरैः कृताः पादा यस्य सप्तभिः सप्तभिश्च यतिर्यत्र तत् स्रग्धरानामकं प्रकृतिजातिच्छन्द इत्यर्थः । उदाहरतियथा - आवास इति । हे धरायाः परिवृढ ! क्षितेः स्वामिन् ! त्वदरिनृपजनैः त्वच्छत्रुराजसमूहैः सम्प्रति अद्यत्वे द्वित्रैरहोभि: द्वाम्यां त्रिभिर्वा दिन: विपिने वने पर्णशाला पत्रादिनिमिताकुटी आवासः निवासस्थानम्, वपुषि शरीरे तरूणाम् वृक्षाणाम् नूतना सद्य उत्पाटिता त्वक् वल्कलं वसनम् आच्छादनम् पाणौ हस्ते आषाढदण्डः व्रतिनां कृते विहिता पलाशादिकाष्ठकृता यष्टिः, शिरसि मस्तके च चिकुरैः केशैः जटानाम् गुम्फः ग्रथनम्, इत्थं पूर्वोक्तप्रकारेण त्वद्भयात् त्वत्तोभीतेः तापसानां वृत्तिः शिक्षिता तपस्विनां व्यवहारोऽनुशीलितः । त्वत्तो भीता स्तव रिपवः तपस्विषु ते कृपां दृष्ट्वा, विपिने गत्वां सर्वं तेषामाचरणं स्वीकृतवन्त इति भावः । आ [s] वा [s] स: [s] प [s] र्ण [1] शा [s] ला [5], व [1] पु [1] षि [1] च [1] व [1] स [1] नं [5]; नू [5] त [1] ना [s] त्व [s] क्त [1] रू [5] णां [s] इति सप्तभिः सप्तभिर्यत्या लक्षणसमन्वयः ।। अ०२, सू० ३४५ । १ ।। त्रौ नौ ज्भौ रः कथागतिः ||३४६ ॥
तरमनजभराः । छछरिति वर्तते । यथा- केष्वव्य खर्वगर्वाद्विधुरितभुवनेष्वन लगजितैर्, अम्मोधरेष्विव शु श्रवणपथगतेष्वमूद्विनिमीलितम् । माखण्डलस्य कामप्यभजत नयनासितोत्पलकाननं, प्रीति चुलुक्यचन्द्र प्रकृतनूपकथागते त्वयि तु क्षणात् ।। ३४६. १।।