SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ २६२ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-३४४.] व [i] दि [1] ह [1] स [1] मु [5] ल [1] स [5] त्य [1] पि [5] ( पादान्तस्य वागुरुत्वानुशासनात् ) त्रिभिः षड्भिश्च यत्या लक्षणसमन्वयः ॥ अ० २, सू० ३४३॥१॥ त्मौ ज्मौ ज्भौ ल्गौ शशाङ्करचितम् ॥३४४॥ तमजभनमलगाः । यथा- त्वं निजितोऽसि निरवद्यया वरतनोमुखाम्बुजरुचा, विस्तीर्णनेत्रललितः कुरङ्गहतकोऽयमप्यवजितः। युक्त शशाङ्क रचितं त्वया यदमुना सहैक्यमधुना, संग: समानगुणयोगिभि भवति देहिनां समुचितः ॥३४४.१॥२०॥११॥ ___ एकादशं प्रकारमाह- भौ भी ज्भौ गौ शशाङ्करचितम् इति । विवृणोति-तभजभजभलगाः इति । तगण-भगण-जगण-भगण-जगण-भगणा लघुगुरू च 'ss). I. II. I. IsI. I. I.' इतीदृशंरक्षरः कृताः पादा यस्य तत् शशाङ्करचितं नाम कृतिजातिच्छन्द इत्यर्थः। उदाहरति- यथात्वं निजितोऽसीति । हे शशाङ्क ! चन्द्र ! त्वं निरवद्यया निःकलङ्कया वरतनोः शुभाङ्गयाः मुखाम्बुजरचा मुखकमलकान्त्या निजितः कृतपराभूतिः असि, अयम् चन्द्रमसि लीनः कुरङ्गहतकः दीनमृगः अपि विस्तीर्णनेत्रललितः विशालनयनविलासः निर्जितः यत् अधुना अस्यां स्थिती अमुना मृगेण सह साधं त्वया ऐक्यम् अभेदः रचितम् कृतम् (तत्) युक्तम् उचितम्, ( यतः) समानगुणयोगिभिः सदृशगुणसहितैः सह सङ्गः मेलनम् देहिनाम् प्राणिनां कृते समुचितः युक्तः भवति । उभावपिचन्द्र. हरिणी कामिन्या मुखनेत्राभ्यां निजिताविति हेतोरेव- तयोरेकत्र स्थितिरितिकविना भङ्गयोत्प्रेक्षितम् । त्वं [5] नि [5] जि [1] तो [5] सि [1] नि [1] र [1] व [5] द्य [1] या [s] व [1] र [i] त [I] नो [5] , [1] खा [s] म्बु [1] ज [1] रु [0] चा [5] इति लक्षणसमन्वयः ॥१० २, सू० ३४४।१।। इत्थं विंशत्यक्षरायाः कृतिजातेरेकादशभेदा लक्षिताः प्रस्तारगत्या तु १०४८७६ भेदा भवन्ति । तदुक्तं भरतेन कृतौ शतसहस्राणि दशप्रोक्तानि संख्यया । चत्वारिंशत्तथाष्टौ च सहस्राणि, शतानिच । पञ्च षट्सप्ततिश्चैव वृत्तानां परिमाणतः॥ इति (भ० ना० शा० १४।६८) २१।११। इति कृतिः ।।
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy