________________
[अ० २, सू० - ३४३ . ] सवृत्तिच्छन्दोऽनुशासन प्रद्योत
२६१
जयाय भवति, यदि ते मित्रेण दक्षिणवायुनैव सर्वं जगत् तव वशेनीतम्, तर्हि तव शस्त्र धारणं व्यर्थमेव, यदि तत्र तवौत्सुक्यम् तर्हि यत्किञ्चिदपि पत्रादिकं स्वधनुषायोजय, न तु दुर्वारान् विजयिन: पौष्पान् बाणानिति । की [5] तु [1] क [1] मा [5] त्र [1] मे [s] व [1] भ [1] व [1] तो [s] य [1] दि [1] श [5] स्त्र [1] प [ 1 ] रि [5] ग्र [1] हे [s] त [1] दा [s] इति लक्षणसमन्वयः । अस्य नामान्तरमाह - उत्पलमालिकेत्यन्ये इति । अन्ये केच - नाचार्या इमाम् ' उत्पलमालिका' इति नाम्ना व्यवहरन्तीत्यर्थः ॥ अ० २, सू० ३४२।१ ।।
नौ नौ नौ लगौ दीपिकाशिखा गचैः ॥३४३॥
भनयननरलगाः । गचैरिति त्रिभिः षड्भिश्च यतिः । यथा- प्राक्तनसुकृतसमूहेबलवदिह समुल्लसत्यपि, दुर्नयकरणमनीषा श्रियमपहरति क्षणान्नृणाम् । पश्यत यदनुपभुक्तऽपि हि विनिहिततैलपूरणे, निर्भरचलितसमीरो दलयति खलु दीपिकाशिखाम् ॥३४३.१॥
दशमं प्रभेदमाह - नौ नौ नौ लगौ दीपिकाशिखागचैरिति । विवृगोति-भनयननरलगाः । गचैरिति त्रिभिः षड्भिश्च यतिरिति । भगणनगण-यगणा नगणद्वयं रगणोलघुगुरू च- '511. 111. 155 111. 111. sis. 15. ' इतीरक्षरैः : कृताः पाता यस्य त्रिभिः सप्तभिश्च यतियंत्र तत् दीपिकाशिखानामक कृतिजातिच्छन्द इत्यर्थः । उदाहरति, यथा- प्राक्तनसुकृतेति । इह जगति प्राक्तनसुकृतसमूहे पूर्वकृतपुण्यराशौ बलवत् सबलं यथास्यात्तथा समुल्लसति विद्यमाने सत्यमपि, दुर्नयकरणमनीषा दुष्कृताचरणसमीहा क्षणात् अचिरादेव नृणाम् मनुष्याणाम् श्रियं लक्ष्मीम् अपहरति नाशयति, हि यतः विनिहिततैलपूरणे कृतस्नेहपूत्तौं अनुपभुक्तेऽपि अदग्धेऽपि निर्भरचलितसमीरः वेगप्रवातवायुः दीपिकाशिखाम् प्रदीपज्वालाम् दलयति नाशयति खलु ( इति ) पश्य अवलोक्य । कृततैलपूर्तेरदग्धतैलस्य दीपस्य यथा वायुवेगवशान्नाशः, तथा प्राक्तनसुकृते सत्यपि सम्प्रतिकृतेन पापेन, पापाचरणेच्छयैव वा - तत्सुकृत फलं लक्ष्सीः झटिति नश्यतीति भावः । प्रा [s] क्त [1] न [1], सु [1] कृ [1] त [1] स [1] मू [5] हे [5]; ब [s] ल [1]