________________
२६०
सवृत्तिच्छन्दोऽनुसाशनप्रद्योते [अ० २, सू०-३४२.] मयि राज्ञां नियन्त्रणं नियमने विश्रुत: प्रसिद्धः विक्रमः पराक्रमः यस्य सः, पक्षे बलिराजस्य बलिनाम्नो राज्ञः नियन्त्रणे संयमने विश्रुतः प्रसिद्धी विक्रमः विशिष्टः पादक्षेपो यस्य सः, त्वम् भवान्, पुरुषोत्तमः पुरुषेषु श्रेष्ठः, अथ च विष्णः; तु किन्तु केवलम् एकः जगद्विजयी संसारजेता त्वदसिः त्वदीयः खङ्गः द्विषां शत्रूणां न नन्दकः नानन्दयिता, अथ च 'नन्दक' नामा न । उक्त सागरमन्थनोद्भवलक्ष्मीपरिग्रहेण, पृथ्वीधारकत्वेन, बलिनृपनियामकत्वेन च त्वं विष्णुरेवासि, तव च विष्णोश्च एक एव भेदो यत् तदसिः (विष्णुखङ्गः) सर्वेषां कृते 'नन्दक' एव (तन्नामकत्वात् ) त्वदसिस्तु मित्राणां नन्दकोऽपि द्विषां न नन्दक इति भावः । अ [5] { [1] त [1] सं [5] ग [1] र [0] सा [s] ग [1] र [I] मं [s] थ [1] न [1] सं [s] भ [1] वां [5] क [1] ल [i] यत् [5] श्रि [1] यं [5] इति लक्षणसमन्वयः ॥अ० २, सू० ३४१।१॥
भ्रौ न्भौ भ्रौ ल्गौ कामलता ॥३४२|| भरनमभरलगाः । यथा- कौतुकमात्रमेव भवतो दि शस्त्रपरिग्रहे तदा, चापशिलीमुखान् घटयितुं कुरु चूतदलावमोटनम् । कस्य मनः करोति न हि वश्यमसौ पुरतो यतः स्फुरन्, काम लतावलीतरलनो मलयानिल एष ते सखा ॥३४२.१॥ उत्पलमालिकेत्यन्ये ॥३४२.१॥
नवमं प्रभेदमाह- भ्रौ न्भौ भ्रौ ल्गो कामलतेति । विवृणोति- भरनभभरलगाः इति भगण-रगण-नगणाः भगणद्वयं रगणोलघुगुरूच 'II. SIS.
1. I. I. 15.' इतीदृशैरक्षरः कृता: पादा यस्य तत् कासलतानामकं कृतिजातिच्छन्द इत्यर्थः । उदाहरति-यथा- कौतुकमात्रमेवेति । हे काम ! भवतः तव यदि चेत् शत्रपरिग्रहे आयुधसंग्रहे कौतुकमेव औत्सुक्यमेव तदा तर्हि चापशिलीमुखान् धनुषिबाणान् घटयितुं योजयितुम् चूतदलाबमोटनम् आम्रपल्लवत्रोटनम् कुरु विधेहि । यतः यस्माद्धेतोः पुरतः तवाग्रे एव स्फुरन्- गच्छन् लतावलीतरलनः वल्लीपङ्क्तिचालक: असौ प्रसिद्धः ते सखा मित्रम् एष अनुभूयमानः मलयानिलः मलयपर्वतपवनः कस्य मनः चेतः वश्यं स्वाधीनं तवाधीनं वा न करोति न विदधाति, अपि तु सर्वस्यैव मनः ते वशं नयतीति भावः। अयमाशयः शस्त्रधारणं हि कस्यचिदजितस्य