SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० - ३४१.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते २८६ सद्रत्नमालाना मकं कृतिजातिच्छन्द इत्यर्थः । उदाहरति- यथा - सन्ध्यान्ते प्रतिदिशमिति । सन्ध्यान्ते सायंकालावसाने प्रतिदिशं सर्वासु दिक्षु समुदिता सम्यगुदयमापन्ना ताराततिः नक्षत्रराजिः श्यामायाः रात्रिरूपकामिन्याः अथच - षोडशवर्षाया: कामिन्याः अभिसरण केलिरभसात् प्रियं ( चन्द्र ) प्रतिगमन क्रीड़ा वेगात् भ्रष्टा विकीर्णा मुक्तावलिः मौलिकपङ्क्तिः इव शोभते राजति । यद्वा- मनसिजेन कामेन व्योमनि आकाशे निजा स्वकीया जंत्रप्रशस्तिः विजयस्तुति: ( स्वर्णाक्षरे: ) लिखिता लिपिकर्मीकृता । अथवा- - विस्फूर्जद्घनतमतमित्रफणिनां विस्फूर्जन्तः विक्रामन्तः ये घनतमतमित्र फणिनः निबिडतरान्धकारसर्पाः तेषां - ( शिरःस्था ) सद्रत्नमाला सतां रत्नानां माला अस्ति । रात्रौ नभसि स्थिता ताराततिस्त्रिधोत्प्रेक्षिता । स [s] न्ध्या [s] न्ते [s] प्र [1] ति [1], दि [1] श [1] मि [1] [s] स [1] मु [1] दि [1] ता [1]; ता [s] रा [5] त [1] ति: [S] शो [s] भ [1] ते [5] इति पञ्चभिरष्टभिश्च यत्या लक्षणसमन्वयः ॥ अ० २, सू० ३४०।१ ।। भीरसल्गा नन्दकम् ||३४१|| भगणचतुष्टयं रसलगाश्च । यथा- अद्भुत संगरसागर मन्थन संभवां कलयन श्रियं, दोष्णि दधद्वसुधावलयं च कुमारपालमहीपते । त्वं बलिराज नियन्त्रणविश्रुतविक्रमः पुरुषोत्तमः, केवलमेष जगद्विजयी त्वदसिद्विषां न तु नन्दकः ।। ३४१.१ ।। अष्टमं प्रभेदमाह - भोरसल्गा नन्दकमिति । विवृणोति - भगणचतुष्टयं रसलगाचंति । भगणाश्चत्वारः रगण-सगणी लघुगुरूच 'SII. SII. S. Sil. sis. 115. 15. ' इतीदृशैरक्षरैः कृताः पादा यस्य तत् नन्दकं नाम कृतिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- अद्भुत संगरेति । हे कुमारपाल - महीपते ! तन्नामकराजन् ! अद्भुत संगरसागरमन्यनसंभवाम् अद्भुतस्याश्चर्यकरस्य संगरसागरस्य संग्रामसमुद्रस्य मन्थनात् संभवः उत्पत्तिर्यस्याः ताम्, श्रियं लक्ष्मीं कलयन् धारयन् दोष्णि बाहौ वसुधावलयं पृथ्वीमण्डलं दधत् धारयन् बलिराजनियन्त्रणविश्रुतविक्रमः बलिनां सैन्यसमृद्धिमता
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy