SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ २८८ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-३४०.] अयमपि तदनिष्टोजनोऽपि बत इति खेदे ताम् अन्याभिलाषिणी ( कांक्षति ) सारसौन्दर्यलक्ष्मीः सारसौन्दर्यस्य उत्तमलावण्यस्यलक्ष्मी: अधिष्ठात्री एषा वराकी दीनाङ्गना एतं स्वप्रेयस्यानिष्टं जनं (कांक्षति) तरुणनिवहः युवजनसमूहः लावण्यपुण्याम लावण्याधायिसुकृताम् अमूं मनोरथगतां कांचित् (कांक्षति ) एवं उक्तप्रकारेण प्रत्यग्रकेलोकुशल ललितः नूतनक्रीडानिपुणविलासः बद्धहासं अनुबद्धहास्यं यथास्यात्तथा- रति स्वप्रेयसी चित्रमालाम् आश्चर्यपरम्परां दर्शयन् ज्ञानविषयतां नयन् वसन्ते सुरभी असौ प्रसिद्धः पुष्पायुधः कुसुमबाणो देवः कामः रमर्यात विनोदयति । कामो वसन्ते स्वप्रभावेण वशीकृताम् परस्परभावबन्धरहितान् अनिच्छन्तीमपि कामयमानात् तेषां मुग्धत्वोपरिहासं पश्येमं मदीयप्रभावमिति सूचयंश्च विनोदयतीति भावः । उक्ताचेयं रीतिर्भर्तृहरिणापि नीतिशतके- “यां चिन्तयामि सततं मयि सा विरक्ता, साप्यन्यमिच्छति जनं सजनोऽन्यसक्तः । अस्मत्कृतेच परितुष्यति काचिदन्या, धिक् तां च तं च मदनं च इमां च मां च ॥ इति । सा [s] कां [5] क्ष [5] त्य [5] न्य [1] में [s] वा [s], य [1] म [1] पि [1] ब [1] त [1] तां [s]; सा [s] र [1] सौ [5] न्द [s] [1] ल [s] क्ष्मीः [s] इति सप्तभिः षड्भिश्च यत्या लक्षणसमन्वयः ।।अ० २, सू० ३३९।१।। अस्य नामान्तरमपीत्याह-सुप्रभेत्यन्य इति । अन्यः कश्चिदिमां सुप्रभेत्याहेत्यर्थः ॥ अ० २, सू० ३३६॥१॥ म्नौ स्नौ म्यौ ल्गौ सद्रत्नमाला उजैः ॥३४०॥ मनसनमयलगाः। रिति पञ्चभिरष्टभिश्च यतिः । यथा- सन्ध्यान्ते प्रतिदिशमियं समुदिता ताराततिः शोभते, श्यामाया अभिसरणकेलिरभसादभ्रष्टव मुक्तावलिः। यद्वा व्योमनि मनसिजेन लिखिता जैत्रप्रशस्तिनिजा, विस्फूर्जधनतमतमिस्रफणिनां सद्रत्नमालाथवा ॥३४०.१॥ सप्तमं प्रभेदमाह- म्नौ स्नौ म्यौ ल्गौ सद्रत्नमाला उजैरिति । विवृणोति- मनसतमयलगाः। जैरिति पञ्चभिरष्टभिश्च यतिरिति । मगण-नगण-सगण-नगण-मगण यगणाः लघुगुरू च 'sss. I. I. 1. sss. Iss. Is.' इतीदृशैरक्षरः कृताः पादा यस्य पञ्चभिरष्टभिश्च यतिर्यत्र तत्
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy