________________
[अ० २, सू० - ३३६. ] सवृत्तिं च्छन्दोऽनुशासनप्रद्योते
इत्यर्थः । उदाहरति- यथा- गतालाक्षेति । अस्याः कामिन्याः अधरदलात् अधरोष्ठपल्लवात् लाक्षारागद्युतिः अलक्तकरञ्जनकान्तिः गता चुम्बनवशालुप्ता, कपोले गण्डस्थले पत्रवल्ली कस्तूरीकृता पत्रलताभङ्गिः विलुप्ता चुम्बनादेव विनष्टा अलिकतः भालस्थलात् तिलकं चन्दनादिकृतो विन्दुः पर्यस्तम् परिश्रमस्वेदात् - विकीर्णम् (अलिकतः ) केशपाशः कचसमूहः लम्बितः नीचैरागतः कर्णोत्तंसः कर्णालङ्कारः च्युतः विपरीतरतप्रसक्त्या पतितः करमणिवलयम् हस्तस्थितं मणिनिर्मितं कङ्कणम् स्रस्तम् सम्मर्द • वशात् पतितम् तथापि प्रियेण वल्लभेन सह प्रत्यग्रः नूतनः संगमः विलासः महतीं विपुलां शोभां कान्ति प्रथयति प्रख्यापयति, हन्त इत्याश्चर्ये । शोभातुषु लाक्षारागादिषु नष्टेष्वपिप्रियसङ्गमसुखसंजातमुखविकासविशेषेण महतीशोभाजायते । उक्तं हि केनचित् - " तनिम्नाराजन्ते सुरतमृदिता बालवनिता: " इति । ग [1] ता [s] ला [s] क्षा [s] रा [s] ग [5], द्यु [1] ति [1] र [1] ध [1] र [1] द [1] लात् [s] ; प [5] त्र [1] ब [5] ल्ली [s] वि [1] लु [s] सा [s] इति षड्भिः मप्तभिश्च यत्या लक्षणसमन्वयः ॥ अ० २, सू० ३३८।१ ।।
२८७
म्रौ भनौ तौ गो चित्रमाला छचैः ॥ ३३६ ॥
मरभनततगगाः । छचैरिति सप्तभिः षड्भिश्व यतिः । यथा- सा काङ्क्षत्यन्यमेवायमपि बत तां सारसौन्दर्यलक्ष्मीर् एषा चंतं वरांकी तरुण निवहोमूं च लावण्यपुण्याम् । एवं प्रत्यप्रकेलीकुशलललितं बद्धहासं वसन्ते, देव: पुष्पायुधोऽसौ रमयति रति दर्शयंश्चित्रमालाम् ||३३६. १ || सुप्रभेत्यन्यः ।।३३६.१ ।।
षष्ठं प्रकारमाह- नौ नौ तौ गौ चित्रमाला छचैरिति । विवृणोति - मरभनततगगाः । छचैरिति सप्तभिः षड्भिश्च यतिरिति । मगण-रगणभरण-नगणाः तगणद्वयं गुरूच ' sss. SIS. SII. 111. sst. SSI. ss.' इतीदृशैरक्षर : कृता: पादा यस्य सप्तभि: षड्भिव यतिर्यत्र तत् चित्रमालानामकं कृतिजातिच्छन्द इत्यर्थः । उदाहरति- सा कांक्षत्यन्यमिति । सा अस्य मनोगता कामिनी अन्यमेव अस्माद्भिन्नमेव पुरुषं कांक्षति प्रियत्वेने च्छति