________________
सवृत्तिच्छन्दोऽनुशासनप्रद्योते
[अ० २, सू० - ३३८. ]
नभभमससलगाः | टैरिति एकादशभिर्यतिरिति । नगणोभगणद्वयं लघुगुरू च ‘1।1. 5।1. 5।1. ऽऽऽ. ।।5. 115. 15. ' इतीदृशैरक्षरैः कृताः पादा यस्य एकादशभिश्च यतिर्यत्र तत् मुद्रानामकं कृति जातिच्छन्द इत्यर्थः । उदाहरति- यथाअयमरण्येति । हे सखे ! अयं मधुः वसन्तः अरण्यमहीषु वनभूमिषु अपि चूतास्वादकषायित कोकिलाकलकलच्छलतः चूतास्वादेन आम्रमञ्जरी रसानुभवेन कषायितायाः रक्ताया कोकिलायाः पिक्या : कलकलच्छलतः अव्यक्तमधुरकोलाहल व्याजेन इह संसारे अस्खलिताम् अप्रतिवद्धाम् आज्ञां मदनस्य निदेशं चिरं बहुकालं वर्तयन् स्थापयन् कुपितमानवतीकलहानाम् कुपितानां प्रियं प्रति कृतकोपानाम् ( अतएव ) मानवतीनाम् - मानिनीनां स्त्रीणां कलहस्य विरोधस्य ( प्रियं प्रति) अन्तकरः नाशकः पुरतः अग्रेमकरकेतु महीपतिमुद्रा व्यापरणं कामनृपशासनप्रवृत्ति - तनुते करोति । वसन्तर्तुः वनेष्वपि ( किमुत सतत भोगपरायणेषु नगरेषु ) कोकिलालापच्छलेत कामाज्ञां दुर्वारां सूचयन् मानिनीनां मानं भञ्जयन् राज्ञो मदनस्य शासनहारक इव प्रतिभातीति भावः । अ [1] य [1] म [1] र [5] ण्य [1] म [1] ही [s] ष्व [1] पि [1] चू [s] ता [s]; स्वा [s] द [1] क [1] षा [s] यि [1] त [1] को [s] कि [1] ला [5], इति एकादशभिर्यंत्यालक्षणसमन्वयः । अस्य नामान्तरमाह - उज्ज्वलमित्यन्ये इति । अन्ये इदमेव उज्ज्वलनाम्ना व्यवहरन्तीत्यर्थः ॥ अ० २, सू० ३३७।१ ।।
२८६
यमौ नौ तो गौ शोभा चछेः ॥३३८ ||
यमननततगगाः । चछैरिति षड्भिः सप्तभिश्च यतिः यथा- गता लाक्षारागद्युतिरघरदलात्पत्रवल्ली विलुप्ता कपोले पर्यस्तं तिलकमलिकतो लम्बितः केशपाश: । च्युतः कर्णोत्तंसः करमणिबलयं त्रस्तमसस्तथापि, प्रियेण प्रत्यग्रः प्रथयति महतीं संगमो हन्त शोभाम् ।। ३३८.१ ।।
पञ्चमं प्रकारमाह- यमौ नौ तौ गौ शोभा चछेरिति । विवृणोतियमननततगगाः । चछैरिति षड्भिः सप्तभिश्च यतिरिति । यगणमगणी; नगणद्वयं तगणद्वयं गुरूच ' Iss. sss. 111. 111. SSI SSI. SS. ' इतीदृशैरक्षरैः कृताः पादा यस्य षड्भिः समभिश्च यतिर्यत्र तत् शोभानामकं कृतिजातिच्छन्द