SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू०-३३७.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते २८५ तृतीयं प्रभेदमाह- स्भौ नौ म्यौ ल्गौ मत्तेभविक्रीडितं डेरिति । सभरनमयलगाः। डैरिति त्रयोदशभिर्यतिरिति । सगण-भगण-रगणनगण-मगण-यगणाः लघुगुरू 's. s. sis. 1. sss. Iss. Is.' इत्येवंप्रकाररक्षर कृताः पादा यस्य, त्रयोदशभिश्च यतिर्यत्र तत् मत्तेभविक्रीडितं नाम कृतिजातिच्छन्द इत्यर्थः। उदाहरति- यथा- उदयाद्रेरिति । (अत्र द्वितीये पादे 'स्फुटसिन्दूररुचिविसूत्रित' इत्येवंरूपेण समस्तः पाठोदृश्यते, किन्तु- छन्दोदृष्टयाऽर्थदृष्टया च स्फुटसिन्दूररुचिविसूत्रित' इत्येवं पृथक् पदत्वं न्याय्यमिति तथैव व्याख्यायते) उदयाद्रेः उदयाचलात् प्रसरन् निर्गच्छन् प्रत्यग्रसन्ध्यातपस्फुटसिन्दूररुचिः प्रत्यग्रेण नवीनेन सन्ध्यातपेन सान्ध्यप्रतापेन स्फुटा स्पष्टा सिन्दूरस्य रुचिरिव रुचिः कान्तिर्यस्य तादृशः, विसूत्रिततमः संदोहवल्लीवनः विसूत्रितं विघट्टितं तयः सन्दोहवल्लीनां अन्धकारपटलीलतानां वनं येनतादृशः अयं प्रत्यक्षदृष्टः दिनपति: सूर्यः वाजिजवोल्लसत्कशपुरः क्रामन्सुपर्णाग्रजप्रतिकारोपरिवल्गदायतकरः वा जीनामश्वानां जवाय वेगाय उल्लसन्ती उपरिस्फुरन्ती कशा अश्वताडनरज्जुः यस्य तादृशो यः पुरः क्रामन् अग्रेसरः सुपर्णाग्रजः अरुणः तस्य प्रतिकाराय निषेधाय वल्गन् चलन् आयतः लम्बमान: करः हस्तः (किरणो) यस्य तादृशः सन् मत्तेभविक्रीडितं उन्मत्तगजलीलां तनुते विस्तारयति । उ [1] द [1] या [s] द्रेः [s] प्र [1] स [1] र [5] न्न [1] यं [s] दि [1] न [1] प [1] तिः [s]; प्र [s] त्य [s] ग्र [1] सं [5] घ्या [s] त [1] प [s] ( स्फुटेति संयोगे गुरुत्वात् ) इति त्रयोदशभिर्यत्या लक्षणसमन्वयः ॥ अ० २, सू० ३३६॥१॥ नो भौ मः सौ ल्गो मुद्रा टैः ॥३३७|| नभममससलगाः । टैरिति एकादशभिर्यतिः । यथा- अयमरण्यमहीष्वपि चूतास्वादकषायितकोकिला-, कलकलच्छलतश्चिरमाज्ञामस्खलितामिह वर्तयन् । कुपितमानवतीकलहानामन्तकरः पुरतः सखे, मकरकेतुमहीपतिमुद्राव्यापरणं तनुते मधुः ॥३३७.१॥ उज्ज्वलमित्यन्ये ॥३३७.१॥ चतुर्थ प्रकारमाह- नो भौ मः सौ ल्गो मुद्रा टैरिति । विवृणोति
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy