________________
२८४
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-३३६.] नरेन्द्र । रामपार्थधुन्धुमारमुख्यपूर्व भूमिपालवृत्तमत्र, सत्यतां चिराय नोतवानसि त्वमुच्चकैश्चुलुक्यचन्द्र ॥३३५.१॥
द्वितीयं प्रभेदमाह- दश ग्ला वृत्तमिति । विवृणोति- गुरुलघूदशवारानावृत्तो वृत्तं नाम वृत्तमिति । गुरुलघू दशवारान् 'si. si. si. s. s. si. sI. I. I. 5.' इतीदृशैरक्षरैः कृताः पादा यस्य तत् वृत्तं नाम कृतिजातिच्छन्द इत्यर्थः। उदाहरति- यथा- प्रीणिताखिलार्थीति । हे चुलुक्यचन्द्र ! चुलुक्यवंशशशाङ्क ! नरेन्द्र राजन् ! प्रीणिताखिलाथि तोषितसकलयाचकम् दानम् वितरणम्, अजितारिजिष्ण, ऊर्जितानां बलवताम् अरीणां शत्रूणां जिष्णु जयशीलं पौरुषम् बलम् महर्षि-चित्रकृत् महर्षीणां महामुनीनाम् (अपि) चित्रकृत् आश्चर्यजनकं जितेन्द्रियत्वम् इन्द्रियजयः एवम् उक्तप्रकारेण अद्भुतान् आश्चर्यकरान् गुणान् दधत् धारयन् त्वम् भवान् अत्र संसारे रामपार्थधुन्धुभारमुख्यपूर्वभूमिपालवृत्तम् राम: परशुरामः, पार्थः अर्जुनः धुन्धुभारः स्वनाम्नाप्रसिद्ध: पार्थिवः (एते) मुख्याः प्रधानानि येषु तादृशानाम् पूर्वभूमिपालानाम् प्राचीनमहीपानाम् वृत्तं चरित्रम् चिराय वहोः कालादनन्तरम् उच्चकैः अत्यन्तं सत्यतां यथार्थत्वं नीतवान् प्रापितवान् असि । परशुरामः 'त्यागःसप्तसमुद्रमुद्रितमही नित्यजिदानावधिः' एवं रूपेण प्रसिद्धो दाता, पार्थः प्रसिद्धो विजेता धुन्धुभारः अप्सरोभिरप्यनपनीत धैर्यः एवं भूतत्वेनैते प्रसिद्धाः, किन्तु तत्र लोकानां विश्वासो नाभूत्, किन्तु चिरकालादपि पश्चात्त्वाम् तादृशे रद्भुतगुणैरुपेतं दृष्ट्वा तेषां चरित्रेषु सत्यता प्रतीतेति भावः । प्री [s] णि [I] ता [s] खि [1] ला [s] थि [1] दा [s] न [1] मू [s] जि [1] ता [s] रि [1] जि [5] ष्णु [1] पौ [5] रु [1] षं [5] म [1] ह [5] षि [1] इतिलक्षणसंगतिः । अ० २, सू० ३३५॥१॥
स्मौ नौ म्यौ ल्गौ मत्तेमविक्रीडितं डैः ॥३३६।। समरनमयलगाः। डैरिति त्रयोदशभिर्यतिः । यथा- उदयाद्रेः प्रसरन्नयं दिनपतिः प्रत्यग्रसन्ध्यातप-, स्फुटसिन्दूररुचिविसूत्रित - तमःसंदोहवल्लीवनः । तनुते वाजिजवोल्लसत्कशपुरःकामत्सुपर्णाग्रज-, प्रतिकारोपरिवल्गदायतकरो मत्तेभविक्रीडितम् ॥३३६॥१॥