SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू०-३३४-३३५.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते कृतौ म्रौ भनौ यभौ लगौ सुवदना छछैः ॥ ३३४॥ मरभनय भलगा छछैरिति सप्तभि: सप्तभिर्यतिः । यथा- आकल्पं कल्पयित्वाभिनवमृगमदेरामुच्य च शिति, क्षौमे कृत्वा विभूषां मरकतमणिभिर्गन्तुं प्रियगृहम् । औत्सुक्याद्यावदस्थात् पथि मुखशशिना तावद्धततमी, ज्योत्स्नी जातेति मूर्छामभजत सहसा कष्टं सुवदना ॥३३४.१ ।। २८३ अर्थावंशत्यक्षरां कृतिजाति वर्णयितुमुपक्रमते - कृतौ स्रौ भनौ य्भौ लगौ सुवदना छछेरिति । विवृणोति - मरभनयभलगाः । छछैरिति सप्तभिः सप्तभियंतिरिति । मगण - रगण भगण-नगण-यगण भगणा लघुगुरू च ' sss. ऽ ऽ ऽ।। ।।1. Iss. 511 15' इतीदृशंरक्षरः कृताः पादा यस्य, सप्तभिश्च यतियंत्र तत् सुवदनानामकं कृति जातिच्छन्द इत्यर्थः । उदाहरति- यथाआकल्पमिति । सुवदना सुमुखी काचित् औत्सुक्यात् प्रियसङ्गमौत्सुक्यात्यावत् - अभिनवमृगमदैः नूतनकस्तूरिकाभिः आकल्पं नेपथ्यरचनां कल्पयित्वा विधाय, शितिक्षौमे कृष्णवस्त्रे आमुच्य परिधाय, मरकतमणिभिः कृष्णवर्णरत्नैः विभूषां अलङ्कृति कृत्वा विरच्य प्रियगृहं अभीष्टजनागारं गन्तुम् अभिसर्तुम् - यावत् पथि मार्गे अस्थात् स्थितवती तावत् मुखशशिना स्वसुखचन्द्रमसा हततमी दुष्टाकृष्णनिशा ज्योत्स्नी सुप्रकाशा जाता सम्पन्ना इति हेतोः सहसा तत्कालमेव मूर्छाम् मोहम् अभजत प्राप्ता (इति) कष्टम् दुःखम् । कृष्णाभिसारिका कृष्णवर्णै रेवोपकरणैः स्वगोपनार्थं वेशं विधाय मार्गे समायाता किन्तु तस्या मुखप्रकाशेनैव सर्वतः प्रसूतेन शुक्लपक्षनिशाऽभवदिति स्वप्रयासं व्यथं ज्ञात्वा प्रियसमागमविघ्नेन मूच्छितेति भावः । आ [5] क [s] ल्पं [s] क [s] ल्प [1] यि [s] त्वा [s]; भि [1] न [1] व [1] मृ [1] ग [1] म [1] दे [5]; रा [5] मु [s] च्य [1] च [1] शि [1] ति [5] ( 'क्षौमे' इति संयोगे परतो गुरुत्वम् ) सप्तभि: सप्तभिर्यत्या लक्षणसमन्वयः ॥ अ० २, सू० ३३४।१ ॥ दशग्ला वृत्तम् ॥ ३३५॥ गुरुलघु दशवारानावृत्तौ वृत्तं नाम वृत्तम् । यथा- प्रीणिताखिलाथिदानमूजिता रिजिष्णु पौरुषं महर्षि, चित्रकृज्जितेन्द्रियत्वमेवमद्भुतान् गुणान् बध
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy