SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ २८२ स वृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० - ३३३. ] क्षि [1] णा [s] नि [1] ल [s] ( प्रावीण्यमिति संयोगादी पदतो गुरुत्वात् ) सप्तभियंत्यालक्षणसमन्वयः ॥ अ० २, सू० ३३२।१ ।। सूगो तरुणीवदनेन्दुः ||३३३॥ सगणाः षट् गुरुश्च । यथा - मृगनाभिविनिर्मितपत्र लतावलिलाञ्छनधारी, जननेत्रचकोर महोत्सव कृत्कमलद्युतिहारी । जगतां विजयाय निबद्धमती लक्ष्मणि सद्यो जयति प्रतिपन्नसहायपदस्तरुणीवदनेन्दुः ॥ ३३३.१ ॥ १६।१३ ।। त्रयोदशं प्रकारमाह- सूगौ तरुणीवदनेन्दुरिति । विवृणोति - सगणाः षट् गुरुश्चेति । तथा च ' ॥ ॥ ॥ ॥ ॥ ॥s. S. ' इतीदृशैरक्षरः कृताः पादा यस्य तत् तरुणीवदनेन्दुनामकमति धृतिजातिच्छन्द इत्यर्थः । उदाहरतियथा- मृगनाभिविनिर्मितेति । मृगनाभिविनिमितपत्रलतावलिलाञ्छनधारी मृगनाभ्या कस्तूर्या विनिर्मिताया: रचितायाः पत्रलतावल्या: रचनाविशेषपङ्क्तेःलाञ्छनस्य - तद्रूपस्य अङ्कस्यधारी धारक:- - तद्रूपं लाच्छनं धारयति तच्छील: इतिवा, जननेत्रचकोर महोत्सवकृत् जनानां नेत्राण्येव चकोराः तेषां महोत्सवं परमानन्दं करोतीति तादृशः, कमलद्युतिहारी कमलानां पद्मानां द्युति कान्ति हरति तच्छीलः, जगतां लोकानां विजयाय पराभवाय निबद्धमतौ निश्चितबुद्धी भषलक्ष्मणि कामे सद्यः तत्कालमेव प्रतिपन्नसहायपदः प्राप्तोपकर्तृ नियोगः तरुणीवदनेन्दुः युवतिमुखचन्द्रः जयति सर्वोत्कर्षेण वर्तते । चन्द्रः लाञ्छनधारी, चकोरानन्दकृत् - कमलसङ्कोचकः कामस्य जगद्विजये सहायश्च तथाचायमपि - तरुणीमुखचन्द्र: इति सर्वथासाम्येन तद्रूपेणरूपणमिति भावः । मृ [1] ग [1] ना [5] भि [1] वि[1] नि [s] मि [1] त [1] प [5] त्र [1] ल [1] ता [5] व [1] लि [1] ला [5] ञ्छ [1] न [1] धा [s] री [s] इतिलक्षणसमन्वयः ॥ अ० २, सू० ३३३।१ ।। इति ऊनविंशत्यक्षरपादाया अतिवृतिजातेस्त्रयोदशप्रभेदावर्णिताः । प्रस्तारगत्या तु अस्याजातेः ५२४२८८ भेदा भवन्ति । तदुक्तं भरतेन - "अतिधृत्यां सहस्राणि चतुर्विंशतिरेव च । तथा शतसहस्राणि पञ्चवृत्तशतद्वयम् । अष्टाशीतिश्च वृत्तानि वृत्तज्ञैः कथितानि तु ॥ ( भ० ना० शा० १४।६६ ) ।। इत्यतिधृतिः ॥
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy