________________
२८१
[अ० २, सू०-३३२.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते पठ, अर्थिजनं याचकलोकम् इमं प्रत्यक्षदृष्टं, कृतार्थम् विहितप्रयोजनम् विरचय विधेहि, परम् उत्कृष्टम् तपः कृच्छादिव्रतं कुरुष्व आचर, इदम् वर्तमानम् आयुः जीवनम् तरलम् चञ्चलम्, तदीयम् तत्सम्बन्धि- एतत् पूर्वोक्तप्रकारम् फलं प्रयोजनं गृहाण अर्जय, अहो हर्षे । चञ्चलेनायुषा स्थिरफलसाधनं जिनेश्वरपादप्रणामादिफलमवश्यमर्जनीयमिति भावः । श्र [1] य [1] वि [1] शु [5] द्ध [1] धि [1] या [5] जि [1] ने [s] श्व [1] र [1] पा [s] द [1] प [s] ङ्क [1] ज [1] भृ [s] ङ्ग [1] तां [s] इति दशभिर्यत्यालक्षणसमन्वयः ।। अ० २, सू० ३३१।१ ।।
म्रौ भः सौ ज्गौ माधवीलता छैः ॥३३२॥ मरभससजगाः । छरिति सप्तभिर्यतिः । यथा-निःसामान्यं तवैतत् किमपि बिराजति दक्षिणानिल, प्रावीण्यं यत्प्रगल्भामिह सहकारलतामनुव्रजन् । अश्रान्तं साभिलाषः स्पृशसि समुन्नयसे विधूनय-, स्यालिङ्गस्याशु चुम्बस्यभिनवकोमलमाधवोलताम् ॥३३२.१॥
द्वादशं प्रभेदमाह- म्रौ भः सौ ज्गौ माधवीलताछरिति । विवृणोतिमरभससजगाः। छरिति सप्तभिर्यतिरिति । मगण-रगण-भगणाः सगणद्वयं जगणो गुरुश्च 'sss. SIS. S.. ||s. . Is1. s.' इतीहशैरक्षरै कृताः पादा यस्य षड्भिश्च यतिर्यत्र तत् माधवीलतानामकंमतिधृतिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- निःसामान्यमिति । हे दक्षिणानिल दक्षिणदिग्वायो ! तव भवतः निःसामान्यम् असाधारणम् किमपि अनिर्वचनीयम् एतत प्रावीण्यां चातुर्यम् विराजति शोभते, यत् प्रगल्भाम् प्रौढाम् सहकारलताम् चूतवल्लीम् अनुवजन् आनुकूल्येनानुशीलयन्, साभिलाषः सतृष्णः अभिनवकोमलमाधवीलताम् नूतनांमृदी माधवीलताम्- अश्रान्तं सततं स्पृशसि, समुन्नयसे उच्चैः उत्थापयसि; विधूनयसि कम्पयसि, आशु शीघ्रम् आलिङ्गसि श्लिष्यसि, चुम्बसि (च) मुखेन योजयसि । दक्षिणानिलोक्याप्रगल्भां स्वप्रियामनुकूलयन्नपि काञ्चन नवीनां नायिकां सर्वथा रमयन् कश्चिदक्षिणनायकः स्तूयते । निः [s] सा [s] मा [s] न्यं [5] त [1] वै [s] तत् [s], कि [i] म [1] पि [1] वि [i] रा [s] ज [1] ति [1] द [s]