SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ २८० सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-३३१.] दशमं प्रकारमाह- रः सौ तो जो गः जितं जैरिति । विवृणोतिरससतजजगाः। रिति दशभिर्यतिरिति । रगणः सगणद्वयं तगण: जगणद्वयं गुरुश्च, 'sis. S. I. I. II. Is1. 5.' इतीदृशैरक्षरः कृता पादा यस्य दशभिश्च यतिर्यत्र तत् जितं नामातिधृतिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- नेक्षस इति । हे तोयद ! जलरिक्ताम् वारिविहीनाम् अपि स्वाम् स्वकीयाम् इमां सर्वदृग्गोचरं तनं शरीरं कि न ईक्षसे पश्यसि, अहो इत्याश्चर्यम्, चण्डमरीचेः तीक्ष्णदीधितेः सूर्यस्य- दुःसहम अविषह्यम् आतपभितम् धर्मप्रभावम् नो निषेधसि वारयसि तत तस्मात् अस्मिन शारदे शरदृतुसम्बन्धिनि समये कालेऽपि पूरितपर्वतकन्दराणि पूरितानि भरितानि पर्वतानां कन्दराणि गुहास्थानि यः तानि गजितानि गर्जनध्वनीन् दधानः धारयन् कि न लज्जसे त्रपसे । जलवर्षणं सूर्यातपवारणं च तवप्रयोजनम्- तयोरेकमप्यकुर्वाणो वृथा गर्वं प्रदर्शयन् कुतो न त्रपसे इति भावः । कमप्युपकारं जनानामनाचरन् स्वगवं दधानः कश्चिन्मेघान्योक्त्या प्रबोध्यते । ने [s] क्ष [1] से [s] कि [I] म [[ हो [s] ज [1] ल [1] रि [s] क्तां [s], स्वा [5] म [1] पि [1] ता [s] व [1] दि [1] मां [s] त [1] नूं [s] इति दशभिर्यत्यालक्षणसंगतिः ॥ अ० २, सू० ३३० ।। नभ्रसा जौ गस्तरलम् ॥३३१॥ नभरलजजगाः । यथा-श्रय विशुद्धधिया जिनेश्वरपारपङ्कजभृङ्गता, प्रकटय प्रशमं भजस्व गुरुनधीष्व सदागमम् । विरचयार्थिजनं कृतार्थमिमं कुरुष्व तपः परं, तरलमायुरिदं गृहाण तदीयमेतदहो फलम् ॥३३१.१॥ एकादशमं प्रभेदमाह-नभ्रसा जो गस्तरलमिति । विवृणोति-नभरसजजगाः इति । नगण-भगण-रगण-सगणा जगणद्वयं गुरुश्च '. I. SIS. ॥. 51. ISI. S.' इतीदृशैरक्षरैः कृताः पादा यस्य दशभिश्च यतिर्यत्र तत् तरलं नामातितिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- श्रय विशुद्धेति । विशुद्धधिया निर्मलमत्या जिनेश्वरपादपङ्कज भृङ्गनाम् जिनपतिचरणकमलमधुकरत्वम् श्रय प्राप्नुहि, प्रशमम् अन्तरिन्द्रियनिग्रहं प्रकटय आविष्कुरु, गुरून् श्रेष्ठजनान भजस्व सेवस्व, सदागमम् सच्छास्त्रम् अधोव्व
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy