SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ [अ० २०-३२९-३३०] सवृत्तिच्छन्दोऽनुशासन प्रद्योते क्ता [s] त्म [1] भि: [s] इति पञ्चभि: षड्भिश्च यत्या लक्षणसमन्वयः ॥ अ० २, सू० ३२८।१ ॥ २७६ मौनौ रौ गोमुग्धकं चछैः ॥३२६॥ यमननररगाः । चछैरिति षड्भिः सप्तभिश्च यतिः । यथा- परिभ्राम्यभृङ्गं श्वसितपरिमलैर्ज पापाटलोष्ठं गिरा लीलालापप्रणयमधुरया सदानन्ददायि । स्फुरत्यन्तश्चित्तं लिखितमिव सखे ममाद्यापि तस्याः, प्ररूढप्रेमायाश्वकितमृगदृशो मुखं मुग्धकं तत् ।। ३२९.१ ॥ नवमं प्रभेदमाह - यमौ नो रो गो मुग्धकं चछेरिति । विवृणोति - यमननररगाः । चछैरिति षड्भिः सप्तभिश्च यतिरिति । यगण-मगणौ-नगणद्वयं रगणद्वयं गुरुव 'Iss. sss 11 111. Bis sis s.' इतीदृशैरक्षरैः कृताः पादा यस्य, षड्भि. सप्तभिश्च यतिर्यत्र तत् मुग्धकनामकमतिधृतिजातिच्छन्द इत्यर्थः । उदाहरति- यथा परिभ्राम्यदिति । हे सखे ! मित्र ! श्वसितपरिमलैः श्वाससौरभैर्हेतुभिः परिभ्राम्यद्भृङ्गः सर्वतः चञ्चूर्यमाणभ्रमरम्, जपापाटलोष्ठं जपावत्पुष्पविशेषवत् - पाटलं रक्तमोष्ठं यस्य तत्, लीलालापप्रणयमधुरया क्रीड़ा - सहितवचोविन्यासपरिचयेनेष्टरसया गिरा वाण्या सदानन्ददायि सर्वदासुखदातृ प्ररूढ़ प्रेमायाः प्रगाढ़स्नेहायाः चकितमृगदृशः चकितस्य भीतस्य मृगस्य दृशाविव दृशौ यस्याः तस्याः, तस्याः पूर्वप्रक्रान्ताया: कामिन्याः मुग्धकम् मनोहरं तत् मुखं वक्रं अद्यापि साम्प्रतमपि मम अन्तश्चित्तं चेतोमध्ये लिखितमिव उत्कीर्णमिव स्फुरति विद्योतते । प [1] रि [s] भ्रा [s] म्यद् [s] भृ [s] ङ्गं [s], श्व [1] सि [1] त [1] १ [1] रि [1] म [1] लै [5], र्ज [1] पा [5] पा [5] ट [1] लो [s] ठं [s] इति षड्भिः सप्तभिश्व यत्या लक्षणसमन्वयः ॥ अ० २, सू० ३२६।१ ।। रः सौ तो जो ग ऊर्जितं ञः ॥ ३३० ॥ रससतजजमाः । नैरिति दशभिर्यतिः । यथा- नेक्षसे किमहो जलरिक्तां स्वामपि तावदिमां तनूं, नो निषेधसि चण्डमरीचेर्बुः सहमातपजृम्भितम् । शारदे समयेऽपि तदस्मिन् पूरितपर्वतकन्दरा, प्यूजितस्तनितानि दधानस्तोयद कि न हि लज्जसे । ३३०.१ ।।
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy