________________
२७८
सवृतिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-३२८.] हंहो ! भो: ? ते तव विरहविधुरया वियोग खिन्नया यया मृगनयनया एतत् प्रत्यक्षम्- विकसितबकुलासूत्रितं विकसितैः प्रफुल्लः बकुलैः पुष्पविशेषः आसूत्रितं पिनद्धं पुष्पदाम कुसुममाल्यम् कण्ठे ( तव ) गले सावहित्यं आकारगृहनपूर्वकं प्रक्षिप्तम्- परिधापितम्- ( इति) पश्य । यया तव गले पुष्पमाल्यं समर्पितं सात्वयि अवश्यं साभिलाषेति भावः । से [s] यं [5] सा [s] कां [5] क्षा [s], त्व [1] यि [1] मृ[1] ग [1] न [1] य [1] ना [s]; सं [s] ग [I] ता [s] ङ्गी [s] वि [1] ला [s] सैः [5] इति पञ्चभिः षभिश्च यत्या लक्षणसमन्वयः ।। अ० २, सू० ३२७।१॥
म्तौ न्सौ तौ गो वञ्चितम् ॥३२८।। मतनसततगाः । छरिति वर्तते । यथा- कैश्विचाकिरविदितसुकृतः शुकाविमुक्तात्मभिः, कोलीभूयान्यविहितपशुगणाघात: परैर्यज्वभिः । जैने धर्मेऽस्मिन् सति सततकृपापीयूषपात्रेऽप्यहो, स्वच्छन्दं धूर्तेरहह कुटिलया बुद्धचा जगद् वञ्चितम् ॥३२८.२॥ बिम्बितमित्यन्यः ॥३२८ ॥
अष्टमं प्रकारमाह- म्तौ सौ तौ गो वञ्चितमिति । विवृणोति-- मतनसततगाः । ङछैरितिवर्तते इति । मगण-तगण-नगण सगणाः तगणद्वयं गुरुश्च 'sss. ssi. | ॥s. 51. 551. s.' इतीदृशंरक्षरः कृताः पादा यस्य पञ्चभिः सप्तभिश्च यतिर्यत्र तत् वश्चितनामकभतिधृतिजातिच्छन्द इत्यर्थः । उदाहरतियथा-कैश्चिच्चार्वाकरिति । सततकृपापीयूषपात्रे सततं सर्वदा कृपापीयूषस्य दयाऽमृतस्य पात्रे निधाने अस्मिन् प्रसिद्ध जैने जिनप्रवत्तिते धर्म सुकृतमार्गे सति विद्यमाने अपि अहो आश्चर्यम्- चार्वाकः नास्तिक: अविदितसुकृतैः अज्ञातपुण्यः शूकाविमुक्तात्मभिः दयाहीनः कश्चित् अज्ञातः, कोलीभूय कोलमार्गमाश्रित्य विहितपशुगणधातः विहितः पशुगणस्य जीवसमूहस्य आधातो हिंसनं यः तादृशः अन्यैः कश्चनाज्ञातः, यज्वभिः यज्ञकारः परः अन्यश्च कश्चित् धूतः वञ्चकः कुटिलया वक्रया बुद्धचा मत्या स्वच्छन्वं स्वरं यथास्यात्तथा जगत विश्वम्, वञ्चितम् प्रतारितमित्यहह दुःखम् । के [s] श्चि [s] चा [s] [s] कैः [s], र [1] वि [1] दि [0] त [1] सु [1] कृ [1] तैः [s]; शू [s] का [s] वि [1] मु[s]