________________
[अ० २, सू०-३२७.] सवृत्तिच्छन्दोऽनुशासनप्रमोते
२७७ उदाहरति- यथा-दुनोति बत तामिति । वदीयविरहाग्निः त्वत्सम्बन्धि वियोगवह्निः कराम्बुजतले पाणिकमलमध्ये निवेशितकपोलां स्थापितगण्डस्थलाम्- शोचन्तीमिति यावत् तां पूर्वप्रक्रान्तां कान्तां अहरहः प्रतिदिनं तथा तेन प्रकारेण- किमपि अनर्वचनीय स्वरूपं यथास्यात्तथा- कथमपि अनिर्वचनीयप्रकारं यथास्यात्तथा दुनोति तापयति वत इति खेदे । तथेत्युक्तमिति तदाकांक्षा पूरयन्नाह- यथा- वरतनुः सुगात्री सा पङ्कजदलैः कमलपत्रः रतिलीला तिचेष्टाम् न करोति, मौक्तिककलापैः मुक्तासमूहैः रतिलीलां न करोति, चन्दनरसैः श्रीखण्डद्रवः रतिलीलां न करोति, चन्द्रकिरणः शशिरश्मिभिः (च) रतिलीलां न करोति । तथा तीवस्तव विरहाग्नितापो यत् पङ्कजादिभिः शैत्योपचारैरपि न शाम्यतीति भावः । दु [1] नो [5] ति [1] व [0] त [1] तां [s]; क [0] रा [5] म्बु [1] ज [1] त [1] ले [s]; नि [1] वे [5] शि [1] त [0] क [1] पो [s] लां [s] इति षड्भि: षड्भिश्च यत्या लक्षणसमन्वयः ॥ अ० २, सू० ३२६॥१॥
म्तौ न्सौ रौ गः पुष्पदाम ङछैः ॥३२७।। मननसररगाः । कुछ रिति पञ्चभिः सप्तभिश्च यतिः। यथा- सेयं साकाङ्क्षा त्वयि मृगनयना संगताङ्गो विलासर्. लीलालोलभूदिवि कमलवनं कुर्वती नेत्रपातः। हहो पश्यतद्विरहविधुरया ते यया सावहित्थं, प्रक्षिप्तं कण्ठे मिकसितबकुलासूत्रितं पुष्पदाम ॥३२७.१॥
सप्तमं प्रकारमाह- म्तो सौ रौ गः पुष्पदाम छैरिति । विवृणोतिमतनसररगाः । उछैरिति पञ्चभिः सप्तभिश्च यतिरिति । मगणतगणनगणसगणा रगणद्वयं गुरुश्च 'sss. ssi. m. us. Is. sis. s.' इतीदृशैरक्षरः कृताः पादा यस्य पञ्चभिः सप्तभिश्च यतिर्यत्र तत् पुष्पदामनामकमतिधतिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- सेयं साकांक्षेति । विलासः विभ्रमैः सङ्गताङ्गी शोभितशरीरा, लीलालोलभ्रः लीलया कौतुकेन लोला चञ्चला भ्रूः भ्रुकुटिर्यस्याः सा, दिवि आकाशे नेत्रपातैः लोचनप्रक्षेपः कमलवनं पद्मकाननं कुर्वती विदधाना सा इयं प्रत्यक्षगोचरा मृगनयना मृगस्यनयने इव नयने यस्याः सा त्वयि भवति साकांक्षा साभिलाषा ।