________________
२७६
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २. सू०-३२६.] फलं कालाक्रान्तमिति । हे ताल ! वृक्षविशेष ते फलं कालाकातं कालेन कृष्णवर्णचिह्नन, आक्रान्तं व्याप्तम्, अथ च कालदोषेण दूषितम्, धिक् निन्दास्पदम्, कुसुमं पुष्पम् अरसम् रसरहितं धिक्, निन्दास्पदम्, पत्रं दलम् भोगास्पदम् भोगविषयं न-न कोऽपि जीवस्तव पत्रमपि भुङ्क्ते इति तदपि धिक्, बहिः त्वचि किमपि अनिर्वचनीयं कार्कश्यम् काठिन्यम्अन्तर्वपुः शरीरमध्यम्- सहजम् स्वभावतः निःसारम् साररहितम्, तदपि धिक्, गृध्राणाम् मृतपशुभक्षिणां पक्षिणाम् उपकरणम् उपकारसाधनम्(तेहि उच्चस्तालोपरि स्थित्वा दूरत एम शवं पश्यन्तीति- तेषामुपकरणभूताम् ) विवृद्धिम् उन्नति धिक् , ते शाखाप्रपञ्चः विटपविस्तार: न अस्ति, अन्यत् एभ्योऽतिरिक्तं त्वदीयं किं स्यात किमपि नेति भावः, अस्त्वेका मदीया छायेति चेत्तत्राप्याह विरलविरला घनीभावरहिताऽतिसच्छिद्रेति यावत् छायाऽपि शीतला तप्तापहारिणी न (अस्ति) तालान्योक्त्या कश्चिदत्युन्नतः सर्वथा परोपकारशून्यसमृद्धिः पुरुषो निन्द्यते । फ [1] लं [s] का [5] ला [s] का [s] न्तं [s], कु [0] सु [1] म [1] म [1] र [1] सं [s]; प [5] [5] न [1] भो [s] गा [5] स्प [1] दं [s] इति षड्भिः षड्भिर्यत्या लक्षणसमन्वयः ॥ अ० २, सू० ३२५॥१॥
त्रिर ज्सौ गो रतिलीला ॥३२६॥ श्रीन वारान् जगणसगणो गुरुश्च । जसजसजसगाः । चचरित्यनुवर्तते । यथा-दुनोति बत लां कराम्बुजतले निवेशितकपोलां, किमप्यहरहस्तथा कथमपि त्ववीयविरहाग्निः । यथा वरतनुर्न पङ्कजदलनं मौक्तिककलापर्, न चन्दनरसन चन्द्रकिरणः करोति रतिलीलाम् ॥३२६.१।।।
षष्ठं प्रकारमाह- त्रिर् ज्सौ गो रतिलोलेति । विवृणोति- त्रीन वारान् जगणसगणी गुरुश्च । जसजसजसगाः । चचरित्यनुवर्तते इति । 'निर्' इति त्रिशब्दाद्वारार्थे सुचारूपम् तेन त्रीन वारानित्यर्थलाभः । तदेव स्पष्टयति जसजसजसा इत्यनेन । तथा च जगण-सगण-जगण-सगण-जगण-सगणा गुरुश्च is.. ||s Is1. |S. ISI. ||S. .' इतीदृशैरक्षरैः कृता पादा यस्य षड्भिः षड्भिश्च यतिर्यत्र तत् रतिलीलानामकमतिधृतिजातिच्छन्द इत्यर्थः ।