SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू०-३२५.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते २७५ चतुर्थ प्रकारमाह- रमौ सौ जो गो मकरन्दिकेति । विवृणोतियमनस नजगाः। चचैरिति वर्तते इति । यगण-मगण-नगण-सगणा जगणद्वयं गुरुश्च Iss sss. IIS. Is1. Is1. ' इतीदृशैरक्षरैः कृताः पादा यस्य षड्भिः षड्भिश्च यतिर्यत्र तत् मकरन्दिकानामकमतितिजातिच्छन्द इत्यर्थः। उदाहरति- यथा- इमां बालामिति । त्वं त्रासाकुल मृगवधूविलोलविलोचनां त्रासेन भयेन आकुला उद्विग्ना या मृगवधूः तस्याः इव विलोले चञ्चले विलोचने विशालनयने यस्यास्तथाभूतां इमां प्रत्यक्षस्थिताम् बाला किशोरी निःशङ्कः सन् वियातविचेष्टितैः धृष्टव्यवहारैः मुहुः भूयो भूय: किमु कुतः व्यथयसि दुःखाकरोषि मृदुभ्राम्यद्भङ्गीपदपरिचयात् मृदु सुकोमलं यथास्यात्तथा भ्राम्यन्ती चञ्चूर्यमाणा या भृङ्गी तस्याः पदेन चरणेन परिचयात्- सम्पर्कात् गलन्मकरन्दिका स्यन्दद्रसा मालती स्वनाम्नाख्याता पुष्पजातिः चण्डः घोरः मुसलपरिधः मुसलः परिश्च परि. क्षोदं चूर्णनम् न सहेत न क्षमेत । कमपि धृष्टं स्वभावानभिज्ञं नायकं परिबोधयन्ती नमसखी कथयति- यथा भृङ्गोमालत्या रसं मृदुनोपायेन गृह्णाति तथा त्वयापीयमप्रोढा नायिका सुकुमार चेष्टितैरेव भोग्येति । इ [1] मां [s] बा [5] लां [5] त्रा [s] सा [s]; कु [ ] ल [1] मृ [1] ग [0] व [1] धू[s]; वि [1] लो [s] ल [1] वि [0] लो [s] च [1] नां [s] इति षड्भिः षड्भिश्च यत्या लक्षणसङ्गतिः ॥ १० २, सू० ३२४।१ ॥ रमौ न्सौ तौ गश्छाया ॥३२५।। यमनसततगाः । चचैरिति वर्तते । यथा- फलं कालाक्रान्तं कुसुममरसं पत्रं न भोगास्पदं, बहिस्तत्कार्कश्यं किमपि सहजं निःसारमन्तर्वपुः । विवृद्धि गृध्राणां धिगुपकरणं शाखाप्रपञ्चो न ते, किमन्यत्ताल स्याद्विरलविरला छायापि नो शीतला ॥३२५.१॥ पञ्चमं प्रभेदमाह-रमौ सौ तौ गश्छायेति । विवृणोति- यमनसततगाः। चचैरिति वर्तते इति । यगण-मगण-नगण-सगणाः तगणद्वयं गुरुश्र 'Iss. sss. 1. Isi. ssi. ssI. 5.' इतीहशैरक्षरः कृताः पादा यस्य षड्भिः षड्भिश्च यतियंत्र तत् छायानामकमतिधृति जातिच्छन्द इत्यर्थः। उदाहरति- यथा
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy