________________
२७४
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-३२४.] जगति कलयंश्चस्डकोदण्डदण्डं, पदं व्यातन्वान: सततमखिलक्ष्मामृतां चोपरिष्टात् । निकामं दुर्धर्षा दिशि दिशि समुहासयन वाहिनीच, स्वमुच्चैश्चौलुक्येश्वर घटयसे मेघविस्फूजितानि ॥३२३.१॥ रम्भेति स्वयंभूः ॥३२३.१।।
तृतीयं प्रकारमाह- रमौ सौ रौ गो मेघविस्फूजिता चचैरिति । विवृणोति- यमनसररगाः। चचैरिति षड्भिः षड्भिश्च यतिरिति । यगण-भगण-नगण-सगणा-रगणद्वयं गुरुश्च 'Iss. sss. III. S. Sis. sis. S.' इतीदृशैरक्षरः कृताः पादा यस्य षड्भिः षड्भिश्च यतिर्यत्र तत् मेघविस्फूजितानामकं धृतिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- निरुन्धानस्तापमिति । हे चौलुक्येश्वर ! चुलुक्यवंशसभूतराजन् ! तापं दुःखम्- पक्षे ऊष्माणं निरन्धानः वारयन् जगति संसारे चण्डकोदण्डदण्डं भयङ्करचाप यष्टिं स्वीयां पक्षे इन्द्रस्य सततम् सर्वदा अखिलक्ष्माभृतां सर्वेषां राज्ञां पर्वतानां वा उपरिधात् मूर्धनि पदं चरणं व्यातन्वानः विस्तारयन् निकामम् अत्यन्तं दुर्धर्षाः अपरिभवनीयाः वाहिनीः सेनाः नद्यश्च दिशिदिशि प्रतिदिशं समुल्लासयन् वृद्धि नयन् त्वम् भवान् उच्चैः अत्यन्तं मेघविस्फूजितानि वारिदविक्रान्तानि घटयसे रचयसि । यथा वारिदः सूर्यतापवारकः इन्द्रधनुर्धारकः सर्वपर्वतोपरि संचारी नदीप्रवाहवर्धकच, तथात्वमपि सर्वेषां क्लेशवारक: सर्वराजशिरःसुपादस्थापकः दुर्धर्षसैन्यसञ्चालकश्चेति मेघविक्रान्तानुरूम विक्रान्तं दर्शयसीतिभावः । नि [D] रु [s] न्धा [s] न [s] स्ता [5] पं [s], ज [1] ग [0] ति [0] क [0] ल [1] यं [5]; श्वं [s] ड [1] को [5] दं [s] ड [1] दं [5] डं [s] इति षड्भिः षड्भिर्यत्या लक्षणसमन्वयः॥ अस्यनामान्तरमाह- रम्भेति स्वयंभूरिति । स्वयम्भूनामा आचार्य इदं छन्दो रम्भेत्याहेत्यर्थः । अ० २, सू० ३२३॥१॥ - यमौ न्सौ जो गो मकरन्दिका ॥३२४॥
यमनसजजगाः चर्चरित वर्तते । यया-इमा बाला त्रासाकुलमृगवधिलोलविलोचना, किमु त्वं निःशङ्को व्यथयसि मुहुवियातविचेष्टितः । परिमोद चण्डमुसलपरिघः सहेत न मालती, मृदुभ्राम्यभृङ्गीपदपरिचयागलन्मकरविका ॥३२४.१॥