SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ३०१ [अ० २, सू०-३५५.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते द्वितीयं प्रभेदमाह- स्तौ नौ सौ ! महास्नग्धरा जछरिति । विवृणोति- सततनसररगाः । जछैरिति अष्टभिः सप्तभिश्च यतिरिति । सगणः तगणद्वय नगणसगणौ रगणद्वयं गुरुश्च ॥s. ssI. ss) 1.. . sis. s.' इतीदृशैरक्षरः कृताः पादा यस्य अष्टभिः सप्तभिश्च यतिर्यत्र तत् महास्रग्धरानामकमाकृतिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- अभि नागानिति । यः कश्चित् वीरतमः रणेषु संग्रामेषु दुष्टभूपान् दुर्जनान् राज्ञः दलयन् विदारयन् 'यः अयं दृश्यमानः नागान गजान् अभि अभिमुखं याति गच्छति स मम स मम प्राणनाथः अस्तु; यच्छिरः यस्य मस्तकं हुंकरोति हुमितिशब्दं प्रकटयति, स मम, अयं प्रचलः चलन् यत्कबन्धः यस्य शिरोरहितशरीरम् प्रहरति शत्रूणामुपरि शस्त्र क्षिपति हे सख्यः स मम प्राणनाथः अस्तु, (इति) अहमहमिकया अहं पूर्व वरेयमहं पूर्वमिति त्वरया- वरवरणमहास्रग्धारणम् वरवरणार्थ महास्रजः महतीर्मालाः धरन्तीति तासां स्वर्गसीमन्तिनीनाम् स्वर्लोकाङ्गनानाम् वाचः वचनानि परि शुश्राव आकर्णयां चकार । अयमाशय: अनेन राज्ञा हतानां भूपानां वरणार्थप्सरसः परस्परमित्थमालपन्ति- एकाकथयति- योगजाभिमुखमपि गच्छति स मर्यववरणीयः, द्वितीयोवाच यस्य कृत्तमपि शिरो रिपून्प्रति सरोषमेव वचनमुच्चरति स मयव वरणीयः अन्याप्रवीति यस्य कबन्धोऽपि प्रहरति स मम वर इति वीराणां पराक्रमानुरूपं तासा माकर्षणमिति । तादृशा अपि वीरा अनेन निर्दलिता इति परमार्थ: । अ [1] भि [1] ना [s] गान् (s] या [s] ति [1] यो [s] यं [s]; स [1] म [1] म [I] म [1] म [1] पु [1] न [s]; र्य [s] च्छि [1) रो [5] हुं [s] क [1] रो [5] ति [s] (पादान्तस्य वैकल्पिक गुरुत्वात् संयोगे परतो वा गुरुत्वात् ) इति अष्टभिः सप्तभिश्च यत्या लक्षणसमन्वयः ॥ अ० २, सू० ३५४।१ ।। भृगौ मदिरा ॥३५५॥ भृगाविति भगणसप्तकं गुरुश्च । यथा- ह्रोविनियन्त्रणविघ्नमपाकुरुतेऽभिनवावतरद्वयसां, प्रौढपुरन्ध्रिजनस्य तथा तिरयत्यपराधपदं सहसा । कोपपदेन च गोत्रपरिस्खलितं न च कारयते तबसौ, कामसखी मदिरेह सतर्षमभाजि चिरं किल कामजन: ॥३५५.१॥ लताकुसुममित्यन्ये ॥३ ५१॥
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy