________________
३०२ __ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-३५६.]
तृतीयं प्रकारमाह- भृगौ मदिरेति । विवृणोति- भृगाविति भगणसप्तकं गुरुश्चेति । तथा च 'I. I. I. I. I. I. S. 5.' इतीदृशैरक्षरैः कृताः पादा यस्य तत्- मदिरानामकमाकृतिजातिच्छन्द इत्यर्थः । उदाहरतियथा- ह्रीविनियन्त्रणेति । कामसखी नर्मसहचरी मदिरा सुरा अभिनवावतरद्वयसाम् अभिनवं नूतनम् अवतरत् समागच्छत् वयः यौवनं यासां तासां कामिनीनाम् होवियन्त्रणविघ्नम् ह्रिया लजाया यद्विनियन्त्रणम् स्वच्छन्दाचारनियमनम् - तदेव विघ्नम्- केलिप्रवृत्तावन्तरायः तम् अपाकुरुते नाशयति, तथा प्रौढपुरन्ध्रिजनस्य प्रगल्भसतीजनस्य ( अग्ने ) अपराधपदं प्रियस्यापराधस्थानम् सहसा झटिति तिरयति आच्छादयति, गोत्रपरिस्खलितं नामसवलनम्- ( प्रकृतनायिकाया आह्वाने तद्विरुद्धनायिका नामोचारणम् ) च कोपपदेन कोपस्थानत्वेन त कारयते न भावयते, तत् तस्मात् असो मदिरा कामिजनैः कामिभिः कामिनीभिश्च चिरं बहुकालं यावत् सतर्ष सतृष्णं यथास्यात्तथा अभाजि जसेवि किल। यथा काचिन्नमसखी नवोढाया ह्रियमपहरति, तथा मदिरापि, प्रौढाश्च स्त्रियो यद्यपि ह्रीरहिता भवन्ति, तथापिताः प्रियस्य पर वनितासङ्गश्रुत्वा सकोपा भवन्ति ता: नर्मसहचरी अनुनयति, मदिरा च तथा ता मादयति यत् ता तमपराधं न स्मरन्ति तत्रापि तस्याः (मदिराया) नर्म सखीसाभ्यम्; नार्योगोत्रपरिस्खलने कुप्यन्ति तत्रापि नर्मसखी ता अनुनयति मदिरा च तथा मादयति येन तदुपरि तासां ध्यानमेव नगच्छतीति तस्याः सर्वथोपकारकत्वं विज्ञाय कामिजनाः सतृष्णं तां सेवन्त इति भावः । ह्री [s] वि [1] नि [0] य [s] न्त्र [1] ण [1] वि [s] घ्न [1] म [1] पा [5] कु [1] रु [1] ते [s] भि [1] न [1] वा [5] व [1] त [0] र [5] = [0] य [1] सां [5] इतिलक्षणसमस्वयः । अस्य नामान्तरमन्यसम्मतमाह- 'लताकुसुममित्यन्ये इति ।।९२, सू० ३५५॥१॥
मत्यनीगा वरतनुः ॥३५६॥ मतया नगणचतुष्टयं गुरुश्च । यथा- चक्षुःसौन्दयं मृगवघ्वां परभृतयुवतिषु मधुरगिरं, यातं हंसीषु स्मितमुद्बुद्धनवविवकिलकुसुमततिषु । रोलम्बश्रेण्यां