________________
[अ० २ ० - ३५७ ] सवृत्तिच्छन्दोऽनुशासन प्रद्योते
३०३
कचलक्ष्मों वदनरुचिरमपि विकचकमले, न्यासं कृत्वा सा खलु याता कचिदपि मम वरतनुरधुना ॥ ३५६.१।।
चतुर्थं प्रभेदमाह - मत्यनीगा वरतनुरिति । विवृणोति - मतया नगणचतुष्टयं गुरुश्चेति । मगण-तगण यगणाः नगणचतुष्टयं गुरुच 'sss. sst. Iss. ।।। ।।। ।।। ।।।. . इतीदृशं रक्षरैः कृताः पादा यस्य तत् वरतनुनामकमाकृतिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- चक्षुः सौन्दर्यमिति । अधुना सम्प्रति मम सा वरतनुः शुभाङ्गी, चक्षुः सौन्दर्यं नेत्रशोभां मृगवध्वां हरिण्याम्; मधुरगिरं मिष्टां वाणीम् परभृतयुवतिषु कोकिलतरुणीषु, यातं गमनं हंसीषु मरालाङ्गनासु, स्मितम् ईषद्धासम्- उद्बुद्धनवविच किलकुसुमततिषु उद्धानां विकसितानाम् नवानां प्रत्यग्राणां विचकिलानाम्पुष्पविशेषाणां ततिषु समूहेषु, कचलक्ष्मी केशशोभां रोलम्बश्रेण्याम् भ्रमरमालायाम्, वदनरुचिम् मुखकान्तिम् अपि विकचकमले विकसितपद्म न्यासं निःक्षेपं कृत्वा विधाय क्वचिदपि कस्मिश्चित् स्थाने याता गता खलु । विधुरस्य परिदेवनमिदम् । यथा कश्चित् क्वापि जिगत्रिषुः स्वकीयन्धनमेकत्र न स्थापयति विभज्य किचित् किञ्चिद्वहूनां हस्ते निःक्षिपति कस्यचिन्न्यासा - पहार बुद्धावपि न सकलधनहानि सम्भवनेति बुद्धया, तथामत्प्रियापि स्वकीयमसाधारणं वस्तु चक्षुः सौन्दर्यादि हरिण्यादिषु न्यस्य - गतेति नासामिदं सर्वमपि तु तस्या एवेत्यपि भावः । च [s] क्षु: [s] सौ [s] न्द [s] र्य [s] मृ [1] ग [1] व [s] ध्वां [s] प [1] र [1] मृ [1] त [1] यु [1] व [1] ति [ 1 ] षु [1] म [1] धु [1] र [1] गि [1] [s] इतिलक्षणसमन्वयः ॥ अ० २, सू० ३५६।१ ।।
-
सौ सौ सौ जगौ दीपार्चिष्ठैः ॥३५७ ॥
मसजसजसजगाः । ठेरिति द्वादशभिर्यतिः । यथा- प्रायो दुष्कृतकर्मसु स्वयममी प्रयान्ति पिशुनाः सहायतां यद्वत्तद्वदनिन्दनीयसुकृतक्रियासु भृशमन्तरायताम् । वह्नौ संततजन्तुसंकुलमहावनप्लुषि सखा समीरणो, दीपाचव्यखिलोपकारिणि भवत्यकाण्डकुपितान्तकः खलु ॥ ३५७.१।२२।५।।