________________
३०४
सवृतिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-३५८.] पञ्चमं प्रभेदमाह- म्सौ सौ सौ ज्गौ दीपाविष्ठरिति । विवृणोतिमसजसजसजगाः। ठेरिति द्वादशभिर्यतिरिति । मगण-सगणजगणसगण जगण-सगण-जगणा गुरुश्च 'sss. Is. II. I. Is1. II. ISI. s.' इतीहीरक्षरः कृताः पादा यस्य द्वादशभिश्चयतिर्यत्र तत् दीपाचिर्नामकाकृतिजातिच्छन्द इत्यर्थः । उदाहरति- यथा-प्रारोदुष्कृतेति । अमी प्रसिद्धाः पिशुनाः सूचकाः यद्वत्- यथा दुष्कृतकर्मसु पापाचरणेषु स्वयम् प्रेरणां विनैव सहायताम् सहकारित्वं प्रयान्ति गच्छन्ति प्रायः बाहुल्येन, तद्वत् तथैवअनिन्दनीयसकृयक्रियासु अनवद्यपुण्यकार्येषु भृशम् अत्यन्तम् अन्तरायताम् प्रतिबन्धकत्वं प्रयान्ति । उक्तमथं सदृशेनार्थेन- समर्थयति- समीरणः वायु: संततजन्तुसङ्कुलमहावनषिः सन्ततं सततं जन्तुभिः जीवः सङ्कुलं व्याप्त महावनं प्लुष्यति दहति इति तथा भूते वह्नौ हुताशने सखा मित्रम् अखिलोपकारिणि सर्वलोकहितकरायां दोपाचिषि प्रदीपज्वालायाम् (वह्नि रूपायामेव) अकाण्डकुपितान्तकः अकाण्डे असमयेकुपितः कृतक्रोधः अन्तकः यम इव मारकः भवति जायते खलु निश्चयेन । यथा वह्नः जीवसङ्कुलवनदाहनरूपे पापाचरणे वायुः मित्रम्, अर्थप्रकाशरूप परोपकार पुण्याचरणे च शत्रुः, तथा पिशुना अपि, पापाचरणे स्वतः सहायतां व्रजन्ति, पुण्याचरणे च विरोधित्वमितिभावः । प्रा [s] यो [5] दु [s] कृ [1] त [0] क [s] म [1) सु [5] स्व [1] य [0] म [1] मी [s] प्र [0] या [s] न्ति [0] पि [i] शु [1] नाः [5] स [1] हा [s] य [0] तां [s] इतीलक्षणसमन्वयः। इत्थं द्वाविंशत्यक्षराया आकृति जातेः पञ्चभेदावणिताः । प्रस्तारगत्यातु . ४१९४३०४ भेदा भवन्ति, तदुक्तं भरतेन ‘चत्वारिंशत्तथकं च सहस्राणां शतानितु । तथा चेह सहस्राणि नवतिश्चतुरुत्तरा। शतत्रयं समाख्यातं ह्याकृत्यां चतुरुत्तरमिति । (म० ना० शा० १४१७२) ॥अ० २, सू० ३५७।१।।
२२॥५ ॥ इत्याकृति जातिः ।। विकृतौ न्जौ म्जौ म्जौ म्लो गोऽश्वललितं टैः ॥३५८।।
नजमजमजमलगा: । टैरित्येकादशभिर्यतिः । यथा- निरयमहान्धकूपमसमान्धकारभरविलोकमतुलं, निपतितगाढमोहपटलान्धजन्तुविविषप्रलापतु. मुलम् । प्रवचनचक्षुषेक्षत इमं चिराय तनुभृत्तथापि बलवच्-, चपलतरेन्द्रि