________________
[अ० २, सू० - ३५.]
सवृत्तिच्छन्दोऽनुशासनप्रद्योते
३०५
याश्वललितै विकृष्ट इह तत्क्षणान्निपतति ॥३५८ १॥ अत्र केचित्सप्तम भगणस्थाने जगणमिच्छन्ति ।। ३५८. १ ।।
अथ त्रयोविंशत्यक्षरां विकृतिजाति वर्णयितुमुपक्रमते विकृतौ न्जौ जौ जौ लौ गोऽश्वललितं टैरिति । विवृणोति - नजभजभजभलगाः । टंरित्येकादभिर्यतिरिति । नगण-जगण भगण जगण भगण- जगण भगणाः लघुगुरूच '111. 151. SHISH. S11. ISI SI IS' इतीदृशैर्वर्णैः कृताः पादा यस्य, एकादशभिश्च यतिर्यत्र तत् अश्वललितं नाम विकृतिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- निरयमहान्धकूपेति । तनुभृत् देही इमं निरयमहान्धकूपम् निरयं नरकमेव महान्धकूपम् विशालं प्रकाशरहितं कूपं, असममहान्धकारदुर्विलोकम् असमेन केनापि तुलना होनेन महान्धकारभरेण घोरान्धतमसमूहेन दुविलोकम् चक्षुर्व्यापारशून्यम्, अतुलम् निरुपमम् निपतितगाढ़मोहपटलान्ध जन्तुविविधप्रलापतुमुलम् - निपतितानां तस्मि निमग्नानां गाढ़मोहपटलेन निबिडाज्ञानसमूहेन अन्धानाम् - अन्तर्बहिर्दृष्टिशून्यानाम् जन्तूनाम् जीवानां विविधप्रलापैः बहुप्रकार रोदनैः तुमुलं सङ्कुलम्, प्रवचनचक्षुषा सदुपदेशलोचनेन ईक्षते जानाति तथापि बलवन्ञ्चपलेन्द्रियाश्वललितैः बलबत् अतिशयं चपलानि चञ्चलानीन्द्रियाण्येताश्वा हयाः तेषां ललितः विलासः विकृष्ट इव आकृष्ट इव तत्क्षणात् सद्यः इह पूवक्तकूपे निपतति स्खलति, वीतरागाणां प्रवचन: उक्तरूपं नरककूपं जानन्नपि जन इन्द्रियपारवश्येनानीश इव तत्र निमज्जतीति भावः । नि [1] र [1] य [1] म [1] हा [5] न्ध [1] कू [s] प [1] म [1] स [1] मा [s]; न्ध [1] का [s] र [1] भ [1] र [1] दु [s] वि [1] लो [s] क [1] म [1] तु [1] लं [s] इत्येकादभिर्यत्यालक्षणसङ्गतिः । अत्रान्योक्तं विशेषमाह- अत्रकेचित् सप्तमभगणस्थाने जगणमिच्छन्तीति । अस्मिन् छन्दसि सप्तमो गणो भगणोऽस्माभिर्न्यस्तः, तत्स्थाने केचिज्जगणमिच्छन्ति इति भावः ॥ अ० २, सू० ३५८ ।१ ॥
मोतो नीलगा मत्ताक्रीडा जङेः ॥ ३५९ ॥
ममता नगणचतुष्टयं लघुगुरू च । जर्जरित्यष्टाभिः पञ्चभिश्व यतिः । हस्तक्षेपैर्वारंवारं विदलयति किल निकरमवनिरुहां, पादानुच्चैः क्षोणी
यथा