________________
३०६
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-३६०.] न्द्राणां विघटयति दशनकुलिशविकषणः । वेगावेगात्पादन्यासनमयति च फणपटलमुरगपतेर्, इत्थं मत्ता क्रीडामा विरचयति नृपवर तव करिघटा । ॥३५६.१॥ ___ द्वितीयं प्रकारमाह-मौ तो नोल्गा मत्ताकोडा जडैरिति । विवृणोतिममता नगण चतुष्टयं लघुगुरू च । जरित्यष्टाभिः पञ्चभिश्चयतिरिति । मगणद्वयं तगणः नगणचतुष्टयं लघुगुरू च 'sss. sss. ssI. I. I. 1. 1. 15.' इतीहशरक्षरैः कृताः पादा यस्य अष्टाभिः पञ्चभिश्च यतिर्यत्र तत् मत्ता. क्रीडानामकं विकृतिजातिच्छन्द इत्यर्थः । उदाहरति- यथा-हस्ताक्षेपरिति। हे नृपवर ! तव मत्ता उद्भूतमदा करिघटा गजश्रेणि: अवनिरुहांनिकरम् वृक्षाणां समूहम् हस्ताक्षेपैः शुण्डाप्रहारैः वारंवार भूयोभूयः विदलयति विदारयति किल, क्षोणोन्द्राणाम् पर्वतानाम् (क्षोणीन्द्रशब्दः पर्वतेन प्रसिद्धः क्षोणीधर-क्षोणीभृदादि शब्दवत् 'क्षोणीध्र' शब्दोऽत्र प्रयोक्तमुचित इति प्रतिभाति ) उच्चैः उन्नतान् पादान् पर्यन्तपर्वतान् दशनकुलिशविकषणः दशनानि दन्ता एव कुलिशानि वज्राणि तैविकषणः उत्खननः विघटयति विदा यति, उरगपतेः शेषनागस्य फणपटलम् भोगसमूहं च वेगावेगात् जवावेशात् पादन्यासः चरणनिपातः ( भारवर्धकः) नमति अध:करोति च, इत्थमुक्तप्रकारेण क्रीडामात्रं लीलां केवलां विरचयति करोति- न तु युद्धम् । रिपूणां, तव करिघटां दृष्ट्र व पलायितानां प्रतिपक्षाभावात्- सा तत्प्रान्ते क्रीडामात्रं करोतीति भावः। ह [5] स्ता [s] क्षे [s] 4 [s] [s] रं [5] वा [s] रं [1]; वि [1] द [0] ल [0] य [1] ति [1]; कि [0] ल [1] नि [1] क [1] र [1] म [1] व [0] नि [1] रु [1] हां [5] इति अष्टाभिः पञ्चभिश्च यत्यालक्षणसमन्वयः ।। अ० २, सू० ३५९।१॥
ताज्जूल्गाः शङ्खः ।।३६०।। तगणात्परं जगणषटकं लघुगुरू च । यथा- चौलुक्यनरेश्वर वैभववासव वीर गोरिमवारिनिधे, सौन्दर्यमनोभव कान्तिनिशाकर सेवककल्पतरो भवतः । को नाम कुणानिह संकलयेत् किल वच्मि तु किचन ते यशसां संपर्कमवाप्य स शङ्खधरोऽभवद्रिसुताकमितु सदृशः ॥३६०.१॥