SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू०-३६१.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते ३०७ तृतीयं प्रकारमाह- ताज्जूल्गाः शङ्ख इति । विवृणोति- तगणात्परं जगणषटकं लघुगुरू चेति । तथा च 'ss. I. Is1. II. II. ISI. ISI. Is.' इतीशरक्षरः कृताः पादा यस्य तत् शङ्कनामकं विकृतिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- चौलुक्यनरेश्वरेति। वैभववासव ! वैभवेन समृद्धया वासव ! इन्द्रसदृश ! वीर गभोरिमवारिनिधे ! गभीरिम्णि अगाधतायां वारिनिधिः समुद्र इव, तत्सम्बोधनम्, सौन्दर्यमनोभव ! सौन्दर्य मनोहरतायां मनोभव: कामइवेति तत्सम्बोधनम्, कान्तिनिशाकर कान्तो द्युतो निशाकर: चन्द्र इवेति तत्सम्बोधनम्, सेवककल्पतरो सेवकानां परिचारकाणां कृते कल्पतरु: इवेति तत्सम्बोधनम्, चौलुक्यनरेश्वर ! चुलुक्यवंशोद्भवनप ! भवतः गुणान् को नाम सङ्कलयेत् किल, साकल्येन गणयेत् किल, तु किन्तु किंचन स्तोकं वच्मि कथयामि, ते यशसां तव कीर्तीनां सम्पर्कम् स्पर्शम् अवाप्य प्राण्य स प्रसिद्धः कृष्णवर्ण: शजधरः कम्बुपाणिः विष्णुः अद्रिसुताकमितुः पार्वतीपतेः शिवस्य सदृशः तुल्यः श्वेतः अभवत जातः । त्वत्कोत्तिधवलीकृतशरीरो विष्णुरपि शिववच्छवेतोऽभवदित्येतावतव तव यशसोऽवर्णनीयत्वं सिद्धमिति भावः । चौ [s] लु [5] क्य [1] न [1] रे [s] श्व [1] र [1] वै [s] भ [1] व [1] वा [s] स [1] व [0] वी [5] र [1] ग [1] भी [s] रि [1] म [1] वा [s] रि [1] नि [1] घे [s] इति लक्षणसमन्वयः । अ० २, सू० ३६०।१॥ नाद्धंसगतिः ॥३६१॥ नगणात्परं जगणषटकं लघुगुरू च। यथा- मदनगजेन्द्रमहोदयमादधती सहसा विमलप्रसरल, लवणिमसिन्धुरनिद्रितनीलसरोरुहचारुललनयना । विशदतराम्बरसंपदिय रजनीकरबिम्बमुखं दधती, शरदिव संश्रितहंसगतियुवतिविदधाति न कस्य मुदम् ।।३३१.१॥ महातरुणीदयितमित्यन्ये ।।३६१.१।। चतुर्थ प्रभेदमाह- नाद्धंसगतिरिति । विवृणोति- नगणात्परं जगणषटकं लधुगुरू चेति । तथा च- 1. Is1. ISI II. Is1. Is1. ISI. IS.' इत्येवं वर्णविन्यासश्चेत्प्रतिपादं तदा हंस गतिरित्याख्यातं विकृति जातिच्छन्द इत्यर्थः । उदाहरति- यथा- मदनेति । मदनगजेन्द्रमहोदयम् काममहा.
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy