________________
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-३६२.] वारणाभ्युदयम् आवधती कुर्वती, सहसा हठात् विमल प्रसरल्लवणिमसिन्धुः विमल: निर्मल: प्रसरन् विकीर्यमाणो योगवणिमा तस्य सिन्धुः प्रवाहयुक्त'नदीव, पक्षे विमल: प्रसरंश्च लवणिमा- यस्याः तादृशी सिन्धुः नदी यस्याम्, अनिद्रितनीलसरोरुहचारुलसन्नयना अनिद्रितं विकसितं यत् नील सरोरुहं तद्वत् चारुणीलसती च नयने यस्याः, पक्षे, तादृशानि सरोरुहाण्येव नयने यस्याः, विशवतराम्बरसंपत् विशदतरा अतिस्वच्छा अम्बरयोः वस्त्रयोः संगत् सम्पत्तिर्यस्याः, पक्षे विशदतरम् अम्बरमेव सम्पद् यस्याः, रजनीकरविम्बमुखम् चन्द्रमण्डलवन्मुखम्- पक्षे चन्द्रमण्डलरूपं मुखं दधती धारयन्ती, संश्रितहंसगतिः संश्रिता हंसानां गतिरिव गतिर्यया, पक्षे संश्रिता हंसर्गतिर्यस्याम् सा- इयं, युवतिः तरुणी शरत् शरहतुः इव कस्य जनस्य मुदं हर्ष न विदधाति करोति । समानं विशेषणः शरदा सहयुवत्य' साम्यमुक्त्वा तस्या मनोमोदजननीत्वं वर्णितम् । वर्षासु पङ्किलभूमो गजानां सञ्चचारे खेद इति शरत्तेषां कृतेऽभ्युदयदायिनी, तद्वत्- युवतिरिति मदन गजेन्द्रस्यमहोदयदायिनी कामोत्तेजकशशिनर्मल्यादीनां प्रादुर्भावात्, वर्षासु नद्यो रजस्वला इति लावण्यविहीना भवन्ति गरदि च तासां लावण्यं प्रसरति, युवतिरपि स्वभावत एवेति, शरदि सरोरुहाणि विकसन्ति तानि च तस्या नेत्र स्थानीयानि युवतेरपि नयनं सरोरुह सदृशम्, शरदिआकाशं विशदं भवति युवतिरपि विशदाम्बरधारिणी, शरदि चन्द्रः प्रकाशते स च तस्यामुखमिव, युवतेश्व मुखं चन्द्रबिम्बमिव , वर्षासु हंसा न संचरन्ति शरदि समायातायां तेषां संचारो भवति, युवतिश्च स्वभावत एव हंसगतिभाश्रयतीति शरदिव स्वर्गुण. रेषा सर्वेषां मोदजननी भवतीति विशकलितोऽर्थः म [1] द [1] न [0] ग [1] जे [5] न्द्र [1] म [0] हो [5] द [1] य [1] मा [5] द [0] ध [1] ती [s] स [0] ह [0] सा [5] वि [1] म [1] ल [s] प्र [1] स [1] रभ-[5] इति लक्षणसङ्गतिः । अस्य नामान्तरमाह-महातरुणीदयितमित्यन्य इति । म० २, सू० ३६१.१ ॥
त्री नौ रल्गाचित्रकम् ।।३६२।। रनरनरनरलगाः । यथा- श्रयतां नृपकुमारपाल तव दर्शनत्वरितया