________________
[अ० २, सू०-३६२-३६३.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते
३०९ व्यधायि यत्, पादतामरसयोः सुवर्णकटके कराम्बुरुहयोश्च नूपुरे । हारदाम च नितम्बबिम्बफलके भृशं हृदि च रत्नमेखला, निर्ममे जतुरसोऽलिकेऽधरदले च चित्रकमधीरचक्षुषा ॥३६२ १॥
पञ्चमं प्रभेदमाह-त्री रनौ रल्गाश्वित्रकम् इति । विवृणोतति-रन-रनरन-रलगा इति । रगण-नगण-रगण-नगण-रगण-नगण-रगणा: लघुगुरूचSIS.III.SIS.11.515.11.SIS.IS. इतीदृशंरक्षरैर्यस्य पदानां विन्यासः तत् चित्रकं नाम विकृति जातिच्छन्द इत्यर्थः। उदाहरति- यथा- श्रूयतामिति । हे नृपकुमारपाल ! राजन् कुमारपाल ! तव भवतः दर्शनत्वरितयाअवलोकनसम्भ्रमवत्या अधीरचक्षुषा चञ्चलनेत्रया कयाचिदङ्गनया यत् व्यधायिकृतं तत् श्रूयताम् आकर्ण्यताम्, पादतामरसयोः चरणकमलयोः सुवर्ण कटके स्वर्णकङ्कणे- हस्तधारणयोग्ये (पिनद्धे ) कराम्बुरुहयोः करकमलयोः च नपुरे पादधारणयोग्ये मञ्जीरे ( परिहिते ) नितम्बबिम्बफलके श्रोणीमण्डलपट्टके च हारदाम भौक्तिकमाला कृता हृदि हृदये वक्षःस्थलेच रत्नमेखला मणिनिर्मिता रसना, अलिके भाले जतुरसः अलक्तकम्, अधरदले अधरोष्ठे च चित्रकम्-तिलकम् निर्ममे विहितम् । त्वां राजमार्गेण समायान्तं श्रुत्वा तथा त्वरिता याता यथा सर्वाण्याभरणानि विपरीत स्थान एव धारितानि, कि कुत्र परिधेयमिति नावधारितवतीति भावः । श्रू [s] य [i] तां [s] = [0] प [0] कु [1] मा [s] र [1] पा [s] ल [1] त [1] व [0] द [s] शं [1] न [s] त्व [1] रि [1] त [1] या [s] व्य [1] धा [s] यि [1] यत् [5] इति लक्षण समन्वयः ।। अ० २, सू० ३६२.१ ।।
भ्मौ स्मौ निल्गाश्चपलगतिः ॥३६३॥ भमसमा नत्रयं लघुगुरू च । यथा- भूमिभृतामङ्केषु विलासं स्वरुचिसदृशमति हि दिदधती, सस्वरमानीता स्फुटमुच्चैः पटह इव नदति यशसि निजे । दुर्ललिता स्तम्बेरमकान्तेव नृपवर दृढतरगुणगणः, साधु भुजस्तम्मे भवता श्रीरतिचपलगतिरिह निगडिता ॥३६३.१॥