SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ३१० सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ०२, सू० - ३६४.] षष्ठं प्रकारमाह- मी स्भो निल्गाश्चपलगतिरिति । विवृणोति - भमसभा नत्रयं लघुगुरूचेति । भगण-मगण सगण भगणेभ्यः पर नगणत्रयं लघुगुरुच - ऽ।।.ऽऽऽ.।।ऽ.ऽ।।.।।।.।।।.।।1.15 इतीदृशैरक्षरः कृतः पादो यस्य तत् चपलगतिनामकं विकृतिजातिच्छन्द इत्यर्थः । उदाहरति- यथा भूमिभृतामिति । हे नृपवर ! राजश्रेष्ठ ! पटह इव मुरज इव निजे स्वीये यशसि कीता स्फुटं स्पष्टं उच्चैः तारं नदति ध्वनति सति, भूमिभृतां राज्ञां पक्षे पर्वतानाम् अङ्केषु क्रोड़ेषु समीपदेशेषु च स्वरुचि सदृशं स्वैरं विलासं क्रीडां अतिहि भृशं विदधती कुर्वती दुर्ललिता स्वच्छन्दचारिणी स्तम्बेरमकान्ता हस्तिनी इव अतिचपलगतिः अतिशयचञ्चलगमना श्रीः लक्ष्मी दृढतरगुणगणैः स्थिरतर शौर्यादिनृपगुण समूहैः परत्र - स्थिरतर रज्जुसमूहैः सत्वरं शीघ्रम् भवता त्वया आनीता आकृष्टा भुजस्तम्भे बहुरूपे आलाने निगडिता बद्धाच । अयमाशयः यथा पहहेनदति सति काचन पर्वतचरी चञ्चलाच हस्तिनी रज्जुभिर्बद्धा समानीयते स्तम्भे च निगडिता क्रियते, तथा राज्ञामुत्सङ्गे स्थिता चञ्चला श्रीः त्वया निजयशसि कीर्त्यमाने सति स्वगुणै कृष्ण समानीयते स्वभुस्तंम्भे बद्धा स्थिरीक्रियते चेति । भू [5] मि [1] भृ [1] ता [S] मं [5] के [5] षु [1] वि [1] ला [s] सं [s] स्व [1] रु [1] चि [1] स [1] ह [1] श [1] म [0] ति [1] हि [1] वि [1] द [ 1 ] घ [1] ती [s] इति लक्षण समन्वयः ॥ अ० २, सू० ३६३.१ ।। ज्सौ सौ यिल्गा वृन्दारकम् ॥ ३६४ ॥ जसजसा यत्र्यं लघुगुरू च । यथा - तदंह्निपरिताडनं सरभसं कचाकर्षणं स्वेच्छया चोजित, मुखाम्बुरुहचुम्बनं प्रति मुहुर्नखंदारणं निर्विशङ्क जवात् । नरेन्द्रतिलक त्वदीयपरिपन्थिनां तुल्यकालं तदेतत्कृतं, शिवाभिरिह संगरे गगनसीनि वृन्दारकप्रेयसीभिस्तथा ।। ३६४, १ ॥ सप्तमं प्रकारमाह- ज्सौ ज्सौ यिल्गा वृन्दारकमिति । विवृणोति- जसजसा - यत्रयं लघुगुरूचेति । जगण सगण जगण सगण यगणत्रयं लघुगुरूच 151. 115. IS1.।।5.151.115.1ऽऽ.।ऽऽ.।SS. 15. इतीदृशैरक्षरैः कृताः पादा यस्य तत् वृन्दारकं
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy