SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ [अ० २ सृ०-३६५.] सवृत्तिच्छन्दोऽनुशासन प्रद्योते नाम विकृति जातिच्छन्द इत्यर्थः । उदाहरति- यथा - तदंहिपरिताडनमिति । हे नरेन्द्रतिलक ! राजभूषण ! इह वर्तमाने संगरे युद्धे - शिवाभिः शृगालीभिः तथा वृन्दारक प्रेयसीभिः देवाङ्गनाभिः त्वदीयपरिपन्थिनां तवशत्रूणां तदेतत् अधोनिर्दिश्यमानं कर्म तुल्यकालम् एकस्मिन्नेव समये कृतम् - विहितम् किं तत् - इत्याह- तदंहिपरिताडनम् तेषां तवशत्रूणां अह्रिभिः चरणैः परिताड़नम् आहतनम् ( शिवाभिः), तेषां अंहयोः चरणयोः परिताडनम् संवाहनं ( वृन्दारक प्रेयसीभिः ) सरभसं सवेगं स्वेच्छया स्वैरं च ऊर्जितं बलवत् यथास्यात्तथा कचाकर्षणं केशाकर्षणं ( द्वाभ्यामपि ), मुखाम्बुहचुम्बनम् मुखकमलेन सह स्ववतृसंयोगः, प्रतिमुहुः वारंवारं जवात् वेगात् निविशङ्कां वारणाशङ्कारहितं नखं : करजैः दारणम् विदलनञ्च इति । अयमाशयः त्वदरीणाम् शरीरम् - भुवि शिवाभि:, दिविचाप्सरोभिरुक्त प्रकारेण उपभुज्यतेस्म । द्वयमपि तदेकस्मिन्नेव काले सम्भवत् - इति विचित्रम् । त [] दं [5] ह्रि [1] प [1] रि [1] ता [S] ड [1] नं [s] स [1] र [1] भ [1] सं [5] क [1] चा [s] क [s] र्ष [1] णं [s] स्वे [s] च्छ [1] या [s] चो [s] जि [1] तम् [s] इति लक्षण समन्वयः । इत्थं त्रयोविंशत्यक्षरायाः विकृतिजातेः सप्त भेदा वर्णिताः । प्रस्तारगत्यातु अस्याः ८३८८६०८ भेदा भवन्ति । तदुक्तं भरतेन ज्ञेयाशतसहस्राणामशीतिस्त्र्याधिका बुधैः । अष्टाशीति सहस्राणि वृत्तानां षट्छतानि च । अष्टौ चैवतु वृत्तानि विकृत्यां गदितानि तु । ( भ. ना. शा. १४.७३ ) अ० २, सू० ३६४१ ।। २३.७ ।। इति विकृतिः ॥ ३११ संकृतौ तौ सौ भौ न्यौ तन्वी ठेः ॥ ३६५ ॥ भतनसभभनयाः । तैरिति द्वादशभिर्यतिः । यथा - दन्तमयूखाः शशधररुचयो वागमृतं रतिरमणधनुर्भूर्, लोचनलक्ष्मीस्तुलयति कमलं नूतन विद्रुमसुहृदधरश्च । चम्पकगर्भप्रतिकृति च वपुर्ह सगतेर नुहेरति च यातं वच्मि विशेषं कमपरमथवा रम्यमहो किमिव हि न हि तन्व्याः ।। ३६५.१ ।। अथ चतुर्विंशत्यक्षरां संकृति जाति वर्णयितु मुपक्रमते संकृतौ भ्तौ न्सौ भो न्यो तन्वी ठैरिति, त्रिवृणोति भतनसभभनयाः । ठंरिति द्वादशभिर्यतिरिति ।
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy