________________
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २. सू०-३६६.] भगण-तगण-नगण-सगणा-भगणद्वयं नगण-यगणों ..ssi...sII.SI.. ।ss. इतीदृशंरक्षरैः कृताः पादा यस्य द्वादशभिर्यतिर्यत्र तत् तन्वी नामकं संकृति जातिच्छन्द इत्यर्थः । उदाहरति- यथा- दन्त मयूखा इति । तन्व्याः कृशाङ्गया: दन्तमयूखाः दशनकिरणाः शशधररुचयः चन्द्रकान्तयः वाक् वचनम् अमृतम् अभृतवत्सुम्वकरम्, भ्रूः भृकुटि: रतिरमणतनुम् कामदेवचापतुल्यम्, लोचनलक्ष्मीः नेत्र शोभा कमलं पद्मम् तुलयति समतां नयति अधरः अधरोष्ठं च नूतनविद्रुमसुहत नवीनविद्रुमसदृशम्, वपुः शरीरं च चम्पकगर्भप्रतिकृति चम्पकस्य स्वनामख्यात पुष्पस्य गर्भः अन्त: प्रदेशस्तस्य प्रतिकृति समानाकारम्, यातं गमनं च हंसगतेः मरालगमनस्य अनुहरति अनुकरोति, अपरम् इतोभिन्नं कं विशेषं आधिक्यं वच्मि कथयामि, अथवा किमिव नहि रम्यम् अहो सर्वमेव तस्य रम्यमित्याश्चर्यमित्यर्थः । रत्यङ्गान्युपरिष्ठाद्वर्णितानि तेषां रम्यत्वं किमुवक्तव्यं सर्वमेवतत्सम्बन्धि रम्यमेवेति भावः । द [s] न्त [i] म [1] यू [s] खाः [s] श [0] श [1] ध [1] र [1] रु [1] च [1] यो [s]; वा [s] ग [I] मृ [1] तं [s] र [1] ति [0] र [i) म [1] ण [] [1] नु [s] भ्रू: [5] इति द्वादशभिर्यत्या लक्षण सङ्गतिः ॥ ३६५.१॥
नौ म्नौ ज्नौ न्यौ ललितलता छछः ॥ ३६६ ॥ ननमनजन नयाः । छछरिति सप्तभिः सप्तभियंतिः यथा- परिमलदिलु. ठन्मधुकरकबरी- विरचितनिरवधिशोभाम्, अभिनवकुसुमस्मितसुभगचि मृदुतरकिसलयपाणिम् । इह मधुसमये विलसति नियतं मनसिजशरपरिविद्धस्, तनुललितलतायुबतिमयमहो कलयति मलयसमोरः ॥ ३६६.१ ॥
द्वितीयं प्रकारमाह- नो नो नो न्यो ललितलता छछरिति । विवृणोति ननभनजननयाः । छछैरिति सप्तभिः सप्तभियंतिरिति । नगणद्वयं भगणनगणी जगणः नगणद्वयं यगणश्च-m.m.stm.s .m.iss इतीदृशैरक्षरः कृता: पादा यस्य सप्तभिः सप्तभिश्च यतिर्यत्र तत् ललितलता नामकं संकृति जातिच्छदः इत्यर्थः । उदाहरति- यथा- परिमतेति । इह अस्मिन् मधुसमये