________________
[अ०२, सू० - ३६७.]
सवृत्तिच्छन्दोऽनुशासनप्रद्योते
वसन्ते मनसिजशर परिविद्धः कामबाण पीडितः मलयसमीर: मलयाचलनिर्गतो वायुः नियतं निश्चितं विलसति कामक्रीडामाचरति कथमित्याहमरिमलविलुङन्मधुकरकबरीविरचितनिरवधिशोभाम् परिमलेन सीरभेविलुतो ये मधुकरास्ते कवरी केशपाश इवेति तया विरचिता विहिता निरवधि: असीमा शोभा ययाताम् अभिनवकुसुम स्मितसुभगरुचिम् नूतन पुष्पमेवस्मितस्य सुभगारुचिः यस्याः ताम् मृदुतरकिसलयपाणिम् मृदुतरोऽतिकोमल: किसलयएव पाणिर्यस्याः ताम् तनुललितलत। युवतिम् तन्वी कुशाललिता मनोज्ञालतंत्र युवतिः ताम् अयं ( मलयसमीर: ) कलयति स्वाधीनां करोति । लतेयं कामिनीव पूर्वोक्त सर्वावयवरम्या तामयं स्ववशे करोतीति, तया सह विलसतीवेति भावः । प [1] रि [1] म [1] ल [1] वि [1] लु [1] ' [s], न्म [1] धु [1] क [1] र [1] क [1] ब [1] री [s], वि [1] र [1] चि [1] त [1] नि [1] र [1] व [1] धि [1] शो [s] भा [s] इति सप्तभिः सप्तभिश्चयत्या लक्षणसङ्गतिः ।। ३६६.१ ।।
३१३
नौ रूर्मेघमाला ॥ ३६७ ॥
नगणद्वयं रगणषट्कं च । यथा - त्रिभुवनविजयाय बद्धाभिमानस्य शृङ्गारयोः प्रयाणक्षणे, कनकघटितदण्डमेतत्किमा भाति नीलातपत्रं लसत्सर्वतः । नवतपविगमश्रिया दीप्रदीपेऽथ कि कज्जलार्थं धृतं कपरं, भ्रममिति विदधाति बोक्ष्योन्नतां मेघमालां जनो विद्युतालंकृताम् ॥ भृङ्गम्जनीलाल केत्येके ॥ ३६११ ॥
तृतीयं प्रभेदमाह - नीरूर्मेघमालेति । विवृणोति- नगणद्वयं रगणषहकं - चेति । तथा च ।।। ।।। SIS. SIS. SIS SIS.SIS.SIS. इतीदृशैरक्षरः कृताः पादा यस्य तत् मेघमाला नामकं संकृति जातिच्छन्द इत्यर्थः । उदाहरति- यथात्रिभुवनेति । जनः लोकः त्रिभुवनविजयाय त्रिलोकीं जेतुं बद्धाभिमानस्य कृताहंकारस्य शृङ्गारयोनेः कामदेवस्य प्रयाणक्षणे यात्रा समये कनकघटितदण्डम् सुवर्णविरचितदण्डं, सर्वतः सर्वस्यां दिशि लसत् शोभमानं नीलातपत्रम् नीलवर्णं छत्रम् एतत् दृश्यमानम् आभाति शोभते किम्