________________
३१४
सवृत्तिच्छन्दोऽनुशासनप्रद्योते
[अ० २, सू० - ३६८ . ]
अथ अथवा नवतपविगमश्रिया नवा नूतना तपविगमस्य प्रावृषः श्री: शोभा तया दोप्रदीपे प्रज्ज्वलत्प्रदीपे कज्जलार्थम् अञ्जननिर्माणार्थं घृतं स्थापितं कर्परं मृत्पात्रखण्डं किम् ? इति विद्युता सौदामिन्या अलंकृताम् शोभिताम् मेघमालां घनपतलीं वीक्ष्य अवलोक्य भ्रमं सन्देहं विदधाति धारयति । विद्युता सह मेघमालोक्य- तस्मिन् कश्चिञ्जनः सुवर्णदण्डयुक्तं नीलवर्ण छत्रस्य कामेन विजयप्राणसमये धृतस्य भ्रमं विदधाति, तत्र विद्युत् दण्डाकारा मेघमाला च छत्राकारा मता । अपरचं प्रावृश्रिया ( स्त्रीत्वेनाध्यवसितया ) कज्जलस्य निर्माणार्थं विद्युद्रूपेदीपे घृतं कज्जलपात्रमेतदिति भ्रमं विदधातीति भावः । त्रि [1] भु [1] व [1] न [1] वि [1] ज [ 1 ] या [5] य [1] ब [s] द्धा [5] भि [1] मा [5] न [s] स्य [1] शुं [5] गा [5] र [1] यो [5] : [s] प्र [1] या [s] ण [s] क्ष [ 1 ] णे [s] इति लक्षण समन्वयः । अस्य नामान्तरमाह - भृङ्गाब्जनीलालकेत्येके इति । एके आचार्या इदं भृङ्गाब्ज नीलालकेत्यादुरित्यर्थः ॥ अ० २, सू० ३६७१ ॥
भः सुभद्रम् ॥ ३६८॥
भुरिति भगणाष्टकम् । यथा शौर्यमृगेन्द्र चुलुक्धनरेन्द्र महत्त्वगिरीन्द्र गभीरिमसागर, दोष्णि चिरं निखिलाचलसिन्धुयुतं वसुधावलयं तव बिभ्रति । अद्भुतभारपरिश्रममुक्ति- समुच्छ्वसितो भुजगाधिपतिस्त्वयि शंसति संतत - मेव सुभद्रमखण्ड महोदयमस्त्विति संप्रति ॥ ३६८.१ ॥
चतुर्थ प्रकारमाह- भृः सुभद्रमिति । विवृणोति भूरिति भगणाष्टकमिति । तथा च 511.511.511.51 1 511.511.SI SII. इतीदृशैवर्णेः कृताः पादा यस्य तत् सुभद्रं नाम संकृति जातिच्छन्द इत्यर्थः । उदाहरति- यथाशौर्यमृगेन्द्रेति । हे शौर्य मृगेन्द्र ! शौर्येण पराक्रमेण मृगेन्द्रः सिंह इवेति तत्सम्बोधनम्, महत्त्वगिरीन्द्र महत्त्वेन वैपुल्येन गिरीन्द्रः पर्वतः इवेति तत्सम्बोधनम्, गभीरिम सागर ! गभीरिम्णा गाम्भीर्येण सागरः समुद्र इवेति गभीरिमसागरः तत्सम्बोधनम् हे चुलुक्यनरेन्द्र ! तब भवतः दोष्णि बाहौ निखिला चल सिन्धुयुतं सकलपर्वतसागरसहितं वसुधावलयं भूमण्डलं