________________
[अ० २, सू० - ३६८-३६६.] सवृत्तिच्छन्दोऽनुशासन प्रद्योते
चिरं बहुकालं बिभ्रति धारयति सति अद्भुतभारपरिश्रममुक्तिसमुछवासितः अद्भुतेन सर्वाश्चयंकरेण भारेण यः परिश्रमं तस्मात् या मुक्तिः तया समुछवासितः जातोछवासः एष भुजगाधिपतिः शेषनागः त्वयि भवति सम्प्रति गच्छति समये अखण्ड महोदयम् अखण्डः सकल: महोदयः यस्मिंस्तत् सुभद्रम् सुकल्याणम् अस्तु इति सततं सर्वदा शंसति कथयति । सपर्वतसागरां भहीं विभ्राणः शेषनागो भारेण परिश्रान्त स्त्वया तस्याः स्वभुजेन धारणे कृते श्रमविमुक्त्या जातोच्छ्वासः त्वां सुभद्राशीमिरभिनन्दयतीति भावः । शौ [s] र्यं [1] मृ [1] गे [s] द्र [1] चु [1] लु [s] क्य [1] न [1] रे [s] न्द्र [1] म [1] ह [s] त्व [1] गि [1] री [5] न्द्र [1] ग [1] भी [s] रि [1] म [1] सा [s] ग [1] र [1] इति लक्षणसंगतिः ॥ अ० २, सू० ३६८.१ ।।
३१५
मितनिसा द्रु तलघुपदगतिः ॥ ३६९ ॥
त्रयं तगणो नत्रयं सच । यथा मुञ्चत नूपुरकङ्कणकावी: कणितभरविरचितकलकलाः, स्वीकुरुताशुर्गात समयोऽयं न खलु समदगजललितगतेः । संभ्रमवान् स्ववधूरनुशासगिरिसरिदभिमुखमतिकृपणः, संप्रति सिद्धपते तव याति द्रुतलघुपदगति रिपुनिवहः ।। ३६६.१ ॥
पञ्चमं प्रभेदमाह-भितनिसा द्रुतलघुपदगतिरिति । विवृणोति- भत्रयंतगणो नत्रयं सचेति । भगणत्रयं सगणश्च SII.5]1.ऽ।। ऽऽ।।।।।।।।।।।।5. इतीदृशं - रक्षः कृताः पादा यस्य तत् द्रुतलघुपदगतिनामकं संकृतिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- मुञ्चतेति । हे सिद्धपते ! सिद्धराज ! सम्भ्रमवान् भीत: त्वरितश्च अतिकृपणः परमदीनः तव भवतः रिपुनिवहः शत्रु समूहः सम्प्रति त्वदभियानसमये, क्वणितभर विरचितकलकलाः क्वणितभरेण गुञ्जनबाहुल्येन विरचितः कृतः कलकलः कोलाहलो याभिस्तथाभूता: नूपुरकङ्कणकाचीः नूपुरे मञ्जीरे, कङ्कणे वलये काची रसना चेति ताः मुञ्चत त्यजत, आशु गत शीघ्रगमनं स्वीकुरुत माश्रयत, अयं साम्प्रतिकः समयः कालः समदगज ललितगतेः मत्तकारिमनोज गमनस्य न खलु नास्ति निश्वयेन,