________________
३१६
सवृत्तिच्छन्दोऽनुशासनप्रद्योते
[अ०२, सू० - ३७०.]
इदम् इत्थम् स्ववधूः स्वाङ्गना: अनुशासत् शिक्षयन् गिरिसरिदभिमुखं पर्वतनदी ममिलक्ष्य याति गच्छति । त्वयाभियुक्तः पलायमानः तव शत्रुः स्वस्त्रियः इत्थं शिक्षयन्- गिरिनदीममिसरति- यत्- चरणहस्त श्रोणीतटाश्रितानि शब्दं कुर्वन्ति- भूषणानि मुञ्चत- अन्यथा तच्छब्दं श्रुत्वापि सिद्धराजसैन्यानि मम गति जानीयुः, किच त्वरितं व्रजत- नायं समयो मन्दगतेरिति । मु [S] ञ्च [1] त [1] नू [5] पु [1] र [1] कं [5] क [1] ण [1] का [5] श्री: [5] क्व [1] णि [1] त [1] भ [1] र [1] वि [1] र [1] चि [1] त [1] क [1] ल [1] क [1] लाः [s] इति लक्षण समन्वयः ॥ अ० २, सू० ३६६ १ ॥
न्यौ भ्तो निसौ संभ्रान्ता ॥ ३७० ॥
नयमता नगणत्रयं सच । यथा- रचयतु जन्मस्नानविधो वस्त्रिजगदधिपचरमजिनपतेः, सुरपतितुङ्गोत्सङ्गनिषण्णस्य किमपि बलविलसितमतुलम् । मृ चरणाङ्गुष्ठाप्रसमाकान्तिविधुर चलितकनकशिखरिस्फुट भयसंभ्रान्तामर - यक्षोरगपति निखिल दुरितवलम् ।। ३७०.१ ।
षष्ठं प्रभेदमाह - न्यो तो निसौ संभ्रान्तिति । विवृणोति - नयभता नगणत्रयं सवेति । नगण-यगण भगण-तगणा नगणत्रयं सगणश्च 111 155.511. ।।।।।।।।।।।5. इतीदृशं रक्षरः कृताः पादा यस्य तत् सम्भ्रान्ता नामकं संकृति जातिच्न्द इत्यर्थः । उदाहरति यथा रचयत्विति । सुरपतितुङ्गोत्सङ्गनिषण्णस्य सुरपतेरिन्द्रस्य तुङ्गोत्सङ्गे उच्चैः क्रोडे निषण्णस्य उपविष्टस्य त्रिजगदधिपचरम जिनपतेः त्रिलोकीभर्तुं अन्तिम तीर्थकरस्य महावीर स्वामिनः जन्मस्नानविधौ जन्मकालिकाभिषेक विधि समये मृदुचरणागुष्ठसमाक्रान्ति विधुरचलित कनकशिखरि - स्फुटभयसम्भ्रान्तामरयक्षोरगपति मृदुः कोमलो यः चरणाङ्गुष्ठः तस्याग्रेण या समाक्रान्तिः तथा विधुरः पीडितोऽतएव चलितः कम्पितो यः कनकशिखरी सुमेरुः तस्माद् स्फुटेन स्पष्टेन भयेन सम्भ्रान्ताः भीताः अमराणां यक्षाणामुरगाणां च पतयो यस्मिंस्तत् किमपि अनिर्वचनीयम् - अतुलम् असमम् बलविलसितम्