SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ __ [अ० २, सू०-३७१.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते। पराक्रम क्रीडितम् वः तद्रक्तानाम् निखिलदुरितवलनम् सर्वपापसहारम् रचयतु करोतु । र [1] च [1] य [0] तु [1] ज [s] म [5] स्ना [s] न [i] वि [1] द्यौ [s] व [s] स्त्रि [1] ज [0] द [s] धि [1] प [1] च [1] र [1] म [1] जि [1] न [1] प [1] तेः [s] इति लक्षण समन्वयः ।। अ० २, सू० ३७०.१॥ म्सौ ज्सौ तौ भ्रौ विभ्रमगतिः ॥ ३७१ ॥ मसजसततभराः । यथा- दृष्टा त्वत्पृतनातुरंगमखुरो तं धरित्रीरजो गगनाङ्गणे, तत्तद् तिमतीं विहाय सपदि स्वां राजधानीमपि प्रियजीविताः । गच्छन्तोऽनुगिरीन् पलायनविधिप्रत्यूहहेतुं मुहुः सहचारिणां, दाराणां कलहं. सविभ्रमति निन्दन्ति चौलुक्यचन्द्र तवारयः ॥ ३७१.१ ॥ सप्तमं प्रभेदमाह- म्सो ज्सी तो भ्रो विभ्रमगतिरिति । विवृणोति- मसजसततभराः इति मगण-सगण-जगण-सगणाः तगणद्वयं भगण रगणौ च sss.S.ISI IIs ssi ssi. Is sis. इतीहरिक्षरः कृता: पादा यरय तत् विभ्रमगतिनामकमनुष्टुन्जातिच्छन्द इत्यर्थः । उदाहरति- यथा- दृष्टवेति । हे चौलुक्यचन्द्र ! चुलुक्यनपवशप्रकाश, प्रियजीविताः प्रियं सर्वापेक्षयाऽभीष्टं जीवितं जीवनं येषां तथा भूताः तव भवतः अरयः शत्रवः गगनाङ्गणे आकाशे त्वत्पृतनातुरङ्गमखुरोधूतं त्वत्सैन्यहयखुरोत्थापितं धरित्रीरजः पृथ्वी धूलिं दृष्ट्वा विलोक्य तत्तद्भूतिमती तथाविधसर्वसम्पत्समृद्धां स्वां स्वकीयां राजधानीमपि राज्यदुर्गमपि विहाय त्यक्त्वा गिरीन पर्वतान् अनु अभिमुखं गच्छन्तः पलायनविधि प्रत्यूहहेतुं पलायनकार्यप्रतिबन्ध कारणभूतां सहचारिणां सहगच्छन्तीनां दाराणां पत्नीनां कलहंसविभ्रमगति कलहंसानां मरालानां विभ्रमगतिमिव विभ्रमगतिम् सविलासगमनं मुहुः वारंवारं निन्दन्ति कुत्सयन्ति । तवाक्रमणं दृष्ट्वा सर्वसम्पत्समृद्धमपि निजावासं परित्यज्य पद्भिर्गच्छन्तस्तव शत्रवः मन्दं सविभ्रमं च गच्छन्तीनां पत्नीनां पलायने विघ्नं सम्भाव्य तास्त्वरयन्तीत्यर्थः । ह [5] ष्वा [5] त्वत् [5] पृ [1] त [1] ना [s] तु [1] रं [s] ग [0] म [1] खु [1] रो [s] भू [s]
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy