Book Title: Chandonushasan
Author(s): Vijaylavanyasuri, Vijaysushilsuri
Publisher: Gyanopasak Samiti

View full book text
Previous | Next

Page 366
________________ [अ० २, सू०-३७५.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते ३२१ ति [1] वि [1] म [1] ल [1] मि [1] ति [1] व [1] न [1] स [1] र [1] ति [1] (भ्रान्त इति संयुक्ते गुरुत्वान् ) दशभिर्यत्या लक्षण समन्वयः ।। अ० २, सू० ३७४.१॥ न्जज्या नीगौ चपलम् ।। ३७५ ॥ नजजया नगणचतुष्टयं गुरुश्च । यथा-कचिदपि चूतलतामुपभुङ्क्त कचिदपि पिबति विकिललता, कचिदपि चुम्बति माधविकां च कचिदपि परिसरति च लवलीम् । बहुविधपुष्पसमृद्धिनिधाने विलसति नवतरमधुसमये, चपलभुजंगविलासमजलं कलयति मधुकर इह मुक्तिः ।। ३७५.१ ॥ चतुर्थं प्रकारमाह- अन्जज्या नीगौ चपलमिति । विवृणोति-नजजया नगणचतुष्टयं गुरुश्चेति । नगणो जगणद्वयं यगणः नगणचतुष्टयं गुरुश्चेति ।।.51. Is1. ॥. . . . . . इतीदृशैरक्षरैः कृताः पादा यस्य तत् चपलं नामाभिकृतिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- क्वचिदपोति । वहतरपुष्पसमृद्धिनिधाने बहुतराणाम् अनेकविधानां पुष्पाणां कुसुमानां समृद्धः सम्यक् सम्पत्तेः निधाने आकरे इह अस्मिन् नवतरमधुसमये सद्यः प्रवृत्तवमन्तकाले विलसति शोभमाने सति मुदितः प्रसन्नः मधुकरः भ्रमरः क्वचिदपि कुत्रचित्प्रदेशे चूतलताम् आम्नवल्लीम् उपभुंक्त सेवते, क्वचिदपि परत्र कुत्रचित्स्थाने विचकिललतां स्वनाम्नाख्यातां वल्लीं पिबति आस्वादयति, क्वचिदपि च अन्यस्थानेषु माधविकां माधवीलतां चुम्बति वक्त्रेण योजयति, क्वचिदपि च कस्मिश्चित् प्रदेशे च लवलीम् प्रियङ्गुलताम् परिसरति परितो भ्रमति ( इति ) अजस्रं संततं चपलभुजङ्गविलासम् चपलस्य कामिनीषुदर्शित चाञ्चल्यस्य भुजङ्गस्य वेश्यास्वामिनो विलासं लीलां कलयति स्वीकरोति । वेश्यासु यथा भुजङ्गा बह्वीभिः सह यथेच्छं क्रीडन्ति तथा भ्रमरोऽपि विविधाभिलताभिः सह विलसतीति भावः । क [1] चि [1] द [1] पि [1] चू [s] त [1] ल [1] ता [s] मु [1] प [1] / [s] क्ते ]s] क्व [1] चि [1] द [1] पि []] पि [1] ब [0] ति [1] वि [1] च [1] कि [1] ल [1] ल [1] तां [5] इति लक्षण समन्वयः । इत्थं पञ्चविंशत्यक्षराया: अभिकृति जातेश्चत्वारो भेदा निरूपिताः । प्रस्तारगत्यातु ३३५५४४६२

Loading...

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460