Book Title: Chandonushasan
Author(s): Vijaylavanyasuri, Vijaysushilsuri
Publisher: Gyanopasak Samiti

View full book text
Previous | Next

Page 381
________________ ३३६ स वृत्तिच्छन्दोऽनुशासनप्रद्योते [अ०२, सू० - ३८६ . ] कण्ठेन प्रसिद्धा किन्तु स- . केवलं वसन्तसम्बन्धेनम धुरः तव कण्ठस्तु स्वभावत एव मधुर इति तत उत्कृष्टः । नयनयोः मृगनयनाभ्यामुपमादीयते, परम्मृगनयने न भ्रूभङ्गे विदग्धे तवनयने च तत्र निपुणे इति ततः स्पष्टं श्रेष्ठे इति भाव: । नि [s] त्यं [s] ल [s] क्ष्म [s] च्छा [s] या [s] च्छ [s] न्नः [s] क [1] ल [1] व [1] तु [1] क [1] थ [1] मि [1] व [1] त [1] व [1] व [1] द [ ] न [1] रु [1] चि [1] म [1] मृ [1] त [1] रु [1] चि [s] वि [1] रं [s] क्ष [1] य [1] सं [5] यु [1] तः [s] इतिलक्षणसङ्गतिः ॥ अ० २, सू० ३८६ । १ । ३५।१ ।। : अथ पूर्वोक्तेषु द्वितीयं प्रकारमाह- 'दशभिर्वृद्धा पिपीलिकापणव' इति । पिपीलिकाच्छन्दसि नगणचतुष्टयात्परतो दशलघवो वृद्धा: तया च मगणद्वयं तगणः नगणचतुष्टयं दशलघवः जगण-मगण- रगणाः ' sss. sss. ssI. III. ।।।. ।।।. ।।।, ।।।।।।।।।।. 151. SII. SIS.' इतीदृशैर्वणैः कृताः पादा यस्य तत् पिपीलिकापणव इत्युक्तम् । तदुदाहरणं यथा- रुन्दोऽमन्द इति । हे ध्वनितगुणपणव ! ध्वनितः शब्दं कुर्वन् गुणानां पणवः पटहो यस्य गुणा एव वा पणवो यस्य तत्सम्वोधनम् हे नृपवर राजश्रेष्ठ ! नवललितवसतेः नूतनसुन्दरावासस्य जगन्त्रितयश्रियः जगत्त्रितयस्य त्रैलोक्यस्य श्रीः लक्ष्मीः यस्य तस्य तव भवतः प्रोत्तुङ्गः समुन्नतः श्वेतप्राकारः शुभ्रोवरणः जयति सर्वोकर्षेण वर्तते । तमेव विशिनष्टि - रुन्दः विशालः अमन्दः अनीचः कुन्दच्छायः कुन्दवन् माध्यपुष्पवत् छायाकान्तिर्यस्य सः, शरदमलघन - तुहिन - विकचकुमुदवन - हरहसित-सितः शरद: शरहतोः अमलाः निर्मलाः घनाः, तुहिनम् - हिमम् - विकचं विकसिर्त कुमुदवनम् - हरस्य शिवस्य हसितम्एतेषामिव सितः शुभ्रः शशाङ्ककरोज्ज्वलः शशाङ्ककरैः चन्द्रकिरणैः उज्ज्वलः सुप्रकाशः, तारः विशुद्धः पारावारापारः पारावारवत् समुद्रवत् अपारः अनन्तः स्थल-जल - गगनतल - सकलभुवनपथ - धवलनपरिचितः स्थलं भूः जलं समुद्रादिप्रदेश :- गगनतलम् आकाशम् सकलभुवनपथः सर्वलोक मार्गः एतेषां धवलने श्वेतीकरणे परिचितः अभ्यस्तः, प्रसाधितदिङमुखः प्रसाधितानि भूषितानि दिशां मुखानि येन तादृशः, लोकालोकच्छेदं लोका लोकनानी मानसोत्तरवर्तिनो गिरेः पर्यन्तम्- गत्वा दृढ़कठिन विकट

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460