Book Title: Bharateshwar Bahubali Vrutti Part_2
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
॥ श्रीभरतेश्वरवृत्ती २ विभागे
कथा।
श्रीमती प्रियाऽभूत् । तस्य च पुत्री कलावती रूपलावण्यपराभूतामरी विद्यते । सा विधातुराद्या सृष्टिरिव सती कलावतीक्रमात् सर्ववर्यधर्मकलाकुशला बभूव । उहाहयोग्यां तां पुत्री भूपो मत्वा विवाहमेलनचिन्तासागरे ममज्ज । इतोऽन्येद्युस्तया पुत्र्या पितुरग्रे प्रोक्तमिति । यो मे प्रश्नचतुष्टयीं पूरयिष्यति स एव मया परिणेतव्यः । ततो गाढतहरचिन्ताब्धौ भूपो निमग्नोऽतीवाभवत् । तस्याः पुत्र्या विवाहार्थ राजा स्वयंवरमण्डपं कारयामास । मासद्वयान्ते चैत्रशुक्लपक्षे एकादशीदिने लग्नमस्ति । सा पुनः कलावती जिनधर्मकुशलाऽस्ति ! । एतन्मया तत्र व्यवसायार्थ गतेन दृष्टम् । तत्र च पुरे विजयसेनभूपस्य जयसेनावं सुतं सर्पदष्टमहमजीवयम्। सुखासनसमारूढं कृत्वा राजा हृष्टस्तं पुत्रं स्वगृहमानयामास । ततो राजा मां सहस्त्राभरणादिदानात् सच्चकार पुत्रमिव । अन्यदा मां सभासमक्षं नरराजः समादिशत् । खबन्धोर्जयसेनस्य यथोपकृतं त्वया तथा स्वसुः कलावत्या अस्यास्तुल्यवरकथनेन । मां वरचिन्तासागरादुत्तारय । तदा त्वां योग्यं मत्वा तस्या रूपं चित्रपटे लिखित्वाऽहमत्राऽऽगमम् । इदं हि रूपं ॥ ३४० ॥ वर्णिकामात्रं तस्या इहानीतं प्रभुविलोकनाय । यादृशमस्ति तस्या रूपं तादृशं देवोऽपि वक्तुं न क्षमः । यावती प्रभा भानोः प्रतिबिम्बेऽपि किं तादृशी दृश्यते ? । तद्विम्बं पश्यन् भूपः क्षणं मुकुलितेक्षणो।धूनयित्वा च शिरो|
Jain Education
L
o nal
For Private & Personel Use Only
l
inelibrary.org

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398