Book Title: Bharateshwar Bahubali Vrutti Part_2
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
शीलवत्या वर्णयामास । त्वं मम भगिनीति कृत्वा वस्त्राभरणादिभिः परिधापयामास तां सभर्तृकाम् । ततः सर्वलोकाश्चमत्कृता जगुः-असौ सतीतमा विद्यते ! । इतोऽजितसेनस्तया प्रियया समं भोगान् भुञ्जानश्चिरं । सुख्यभूत् । लक्ष्मीधरचन्द्रसेनाहौ पुत्रौ जातौ तयोः । धर्म जिनोक्तं कुरुतस्तौ । अन्यदा तत्र पुरे दमघोषसूरय । आगताः। (अ)जितसेनः सप्रियो धर्म श्रोतुं तत्र गतः। तथाहि-"धर्माजन्म कुले शरीरपटुता सौभाग्यमायुर्बुवं (बलं) धर्मेणैव भवन्ति निर्मलयशोविद्यार्थसम्पत्तयः । कान्ताराच्च महाभयाच्च सततं धर्मः परित्रायते, धर्मः सम्यगु
पासितो भवति च स्वर्गापवर्गप्रदः ॥ १॥” देशनान्ते मुनि शीलवती पप्रच्छ-मया किं कृतं पूर्वभवे ? । ज्ञानी । IN प्राह-कुशपुरे श्रावकः सुलसाभिधोऽभवत् ! । तस्य भार्या सुयशा बभूव । तस्य दुर्गतनामा भृत्यः प्रकृत्या I
भद्रकोऽभवत् । दुर्गिला प्रिया तस्याभवत् । साई सुयशसाऽन्येचुर्दुर्गिला बतिनीपार्श्वे ययौ । सुयशसं पुस्तक-11 पूजां कुर्वाणां वीक्ष्य दुर्गिला प्राह-आर्थे ! किमद्य पर्वेति ? । साध्वी प्राह-अद्य श्रुततिथिर्विख्याता ज्ञानपञ्चमी विद्यते ! । -“य इह श्वेतपञ्चम्यामुपवासपरायणः । पुस्तकाभ्यर्चनापूर्व, कुर्याज्ज्ञानप्रभावनाम् ॥ १ ॥ स NI प्रेत्य सुखसौभाग्यभाग्यबुद्धयादिवैभवम् । प्राप्य क्रमेण लभते, शुद्धशीलपरो नरः! ॥२॥" श्रुत्वेति दुर्गिला
JainEducati
,
For Private
Personel Use Only
jainelibrary.org

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398