Book Title: Bharateshwar Bahubali Vrutti Part_2
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तत्रागात् । शीलवत्योक्तं-भोजनं क्रियमाणमस्ति । यावत् स्नानाय पानीयमुष्णं भवति तावत्त्वं तु पर्यङ्के उपविश । ततो यावदसौ तत्रोपविशति तावत् त्रुटिततन्तुपल्यङ्कादधो गर्तायामशोकः पतितः। रजबद्धशरावेण । भोजनोदके तस्मै ददती तिष्ठति स्म । स चाशोको नरकदुःखं तत्रोपभुङ्क्ते स्म । मासे एकस्मिन् गते राजाऽऽख्यत्अशोकस्य शुद्धिरपि न ज्ञायते। ततो रतिकेलिस्तथैव प्रतिज्ञां कृत्वा तत्र गतः। तयाऽशोकवत् कूपे क्षिप्तः। एवं कामाकुरोऽपि तत्र गतः । तया गर्तायां क्षिप्तः । तथा ललिताङ्गोऽपि । एवमशोकरतिकेलिकामाङ्कुरललिताङ्गा गर्तायां महादुःखमनुभवन्ति स्म । नारका इव नरके । ते च शीलवतीं प्रोचुर्दीनास्याः पीडिताः क्षुधा । अनात्मज्ञा नरा एवमस्मदृदुःखभाजनम् ॥ १॥ न दृष्टं तव माहात्म्यं, मूढैरस्माभिरेव हि । प्रसद्यास्मान्नितः कूपानिष्कासय सतीतमे! ॥ २ ॥ तयोचे-यूयमस्मदीयोक्तं कुरुत तदा कृषिष्यामः । तैरुक्तं यत्त्वयोपदिश्यते तदुकरं सुकरं वा करिष्यते । शिक्षयित्वेति शीलवत्या भर्तरि समागते तेषां चतुर्णां राजानुगानां स्वरूपं प्रोक्तम् ।। एकदा भूपं सपरिच्छदं भोजयामि। पश्चात्तान् प्रादुप्करिष्यामि । ततो राजा निमत्रितस्तेन भोजनार्थ। तत्र भोक्तुमागतः । इतः प्रच्छन्नं शीलवत्या रसवती निष्पादिता । ततस्ते प्रच्छन्नं दुर्बला बहिकृता अपवरकान्तरास
Jain Educat
onal
For Private
Personal Use Only
Dow.jainelibrary.org

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398