Book Title: Bharateshwar Bahubali Vrutti Part_2
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
॥ श्रीभरतेश्वरवृत्तौ १२ विभागे
॥ ३५५ ॥
Jain Education
भृत्योऽवधूतवेषं कृत्वा अशोको वर्यनेपथ्यभृत् नन्दनपुरे गत्वा शीलवत्या गृहस्यासन्नं स्थानं गृहीत्वा तस्थौ । अशोकस्तत्रस्थो वर्यवेषभृत् पञ्चमोद्वारं गीतमुद्गिरन् रुचिराङ्गकः सञ्चचार पुरस्तस्याः । बहुप्रकारान् विकारान् कुर्वन्तं तं सा सती वीक्ष्य दध्यौ शीलवती - ममासौ शीलध्वंसं करिष्यति । नूनमिच्छति मूर्खोऽसौ, क्रष्टुं केसरिकेसरान् । विविक्षति हतवान्तः, सुहुतं वा हुताशनम् ॥ १ ॥ इति ध्यात्वा सा निर्विकल्पाऽपि नेत्रकोणेन तं विलोकते । ततोऽशोको हृष्टो दध्यौ - सिद्धं मम समीहितमस्याः सम्मुखविलोकनात् । ततो दूतीं प्रस्थापयामासाशोकस्तस्याः पार्श्वे । सा तत्र गत्वा शीलवत्या अग्रे प्राह-भद्रे ! तव गतो भर्ता समं राज्ञा । न ज्ञायते तस्य किं भविष्यति ? । गतो वासरो नायाति । भोगं विना यौवनं तव निष्फलं गच्छदस्ति । शीलवती जगौ - कुलस्त्रीणां न युज्यतेऽन्येन पुरुषेण सह वार्तामपि कर्तुं । किं पुनरन्यसङ्गमः १ । पुनः पुनः कथयन्त्या तया दूत्या शीलवत्या मानितं । स प्रेष्यतामत्र पञ्चमे दिने । ततो दूतिकया शीलवत्याः स्वरूपे कथिते अशोको हृष्टः । अर्धलक्षं स्वर्णस्य प्रथमं प्रेषितं तस्या गृहे । तेन शीलवती खशीलरक्षार्थं प्रच्छन्नमपवरकस्य मध्ये गर्ता खानयामास । तस्या उपरि पर्यङ्कं निष्केवलतन्तुस्यूतं सोत्तरच्छदं चकार सा । पञ्चमेऽहनि स स्वर्णस्य सार्द्धं लक्षमादाय
For Private & Personal Use Only
शीलवतीकथा ।
॥ ३५५ ॥
ainelibrary.org

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398